OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 31, 2025

 अद्य राष्ट्रिय एकतादिवसः। 

आराष्ट्रम् पट्टेल् वर्यस्य स्मरणायाम्  एकतादिनकार्यक्रमाः। 


प्रधानमन्त्री गुजराते; पटेलप्रतिमायां पुष्पार्चना; अर्धसेनाविभागानां पथसञ्चलनम्। 

केवाडिया [गुजरात्] > अद्य सर्दार् वलभायि पटेलवर्यस्य १५० तमं जन्मदिनम्। आराष्ट्रम् एकतादिवसरूपेण आमान्यते। बहुविधकार्यक्रमाः सर्वेषु राज्येषु प्रचलन्ति। 

  गुजरातराज्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्दार् पटेलवर्यस्य प्रतिमायाः परिसरे एकतादिनम् आमन्यते। अर्धसेनाविभागस्य पथसञ्चलनं सम्पन्नम्। विविधानि कलारूपाणि प्रदर्शितानि।  मोदिवर्यः पटेलप्रतिमायां पुष्पहारं समर्पितवान्। तदनन्तरं एकतादिनप्रतिज्ञां कारयित्वा राष्ट्रम् अभिसंबुध्य भाषणमकरोत्। स्वतन्त्रतादिनं, गणतन्त्रदिनमिव श्रेष्ठमस्ति राष्ट्रिय एकतादिनमपि इति प्रधानमन्त्रिणा उद्बोधितम्।

Latest news