OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 16, 2026

 रसना मासपत्रिकायाः प्रबंधसंपादकः के एम् जनार्दनः समादृता।

के. एम्. जनार्दनः सम्मानं स्वीकरोति

त्रिश्शिवपेरूर् > रसना मासपत्रिकायाः सम्पादकः के एम् जनार्दनः केरलसर्वकारेण समादृतः। संस्कृतभाषायाः प्रचाराय रसना मासिकायाः प्रकाशनेन के एम् जनार्दनः संस्कृतभाषायाः प्रचारणमण्डले प्रयत्नं कृतवान्। केरलात् प्रकाश्यमाना इयंपत्रिका २००९ तमात् संवत्सरादारभ्य अनुस्यूततया प्रकाशिता भवति। केरलस्य शिक्षामन्त्री वि शिवन् कुट्टी महोदयस्य हस्तात् के . एम् जनार्दनः स्वीकृतवान्। 

 गासा युद्धविरामः द्वितीयचरणं प्रविशति। 

वाषिङ्टणः> गतवर्षे ओक्टोबरमासे गासायां प्रवृत्तिपथमानीतः युद्धविरामः तस्य द्वितीयचरणं प्रविशन्नस्तीति यू एस् राष्ट्रपतेः सविशेषप्रतिनिधिः स्टीव् विट् कोफ् इत्यनेन बुधवासरे निगदितम्। चरणेSस्मिन् हमासस्य निरायुधीकरणं, गासायाः पुनरुद्धारणं, गासायाः प्रतिदिनकार्यतन्त्रार्थं अमेरिकायाः अधीशत्वे कुशलपलस्तीनीयानां समितिः इत्येतानि अन्तर्भवन्ति।

 इराने प्रक्षोभः शाम्यते। 

दुबाय्> सप्ताहत्रयेण इरानवीथिषु प्रज्वाल्यमानः प्रक्षोभाग्निः शाम्यते इति सूच्यते। गतदिने गणनीयाः अनिष्टघटनाः अक्रमाः न जाताः। भुषुण्डिप्रयोगध्वनयः अत्यन्तं न्यूनाः आसन्निति दृक्साक्षिप्रामाण्यम् उद्धृत्य ए पि नामकवृत्तान्तसंस्थया निगदितम्। 

  इराने वर्तमानेषु ३१ प्रान्तेषु १८० नगरेषु बहुजनप्रक्षोभः व्याप्तः आसीत्। १५० सुरक्षासैनिकान् अभिव्याप्य २५७२ जनाः मृताः। १९७९ तमे जातस्य इस्लामिकान्दोलनस्यानन्तरं अधिकः रक्तरूषितः संघर्षः अस्ति इदानीं प्रवृत्तमानः संघर्षः।

 बी एस् एफ्, ऐ टि बी पी, एन् ऐ ए संस्थासु नूतनमुख्याधिकारिणः नियुक्ताः। 

नवदिल्ली> सीमा रक्षासेना [बी एस् एफ्], इन्डो-टिबटन् बोर्डर् पोलीस् [ऐ टि बी पी], राष्ट्रिय अन्वेषण नियुक्ता [एन् ऐ ए] इत्येतासां संस्थानां नूतनाः मुख्याधिकारिणः केन्द्रप्रशासनेन नियुक्ताः। वरिष्ठः ऐपिएस् पदीयः शत्रुजित् सिंह कपुरः ऐ टि बी पी मुख्यनिदेशको जातः। वर्तमानीन ऐ टि बी पी मुख्यनिदेशकः प्रवीण कुमारः बी एस् एफ् दलस्य मुख्यनिदेशकरूपेण नियुक्तः। वरिष्ठः ऐपिएस् पदीयः राकेश अगर्वालः एन् ऐ ए इत्यस्य मुख्याधिकारी अभवत्।

Thursday, January 15, 2026

 महाराष्ट्रम्। 

 नगरसभानिर्वाचनं सम्पन्नम्। 

मुम्बय्यां जनविधिः आकाङ्क्षां भजते। 

मुम्बई> भारतराष्ट्रस्य आर्थिकराजधानीति प्रसिद्धिं भजमानं मुम्बैयम् अभिव्याप्य २९ महानगरेषु नगरेषु च तद्देशीयनिर्वाचनं समभवत्। 

 किन्तु सर्वाण्यपि नेत्राणि बृहन्मुम्बई मुनिसिपल् कोर्परेषन् [बी एम् सि] इति कथ्यमानम् आर्थिकराजधानीं केन्द्रीकृतानि सन्ति। बी एम् सि संस्थायाः प्रशासनपदप्राप्तिः सर्वेषां राजनैतिकदलानाम् आत्माभिमानस्य विषयो भवति। एष्याभूखण्डे बृहत्तरेषु आयव्ययपत्रकराशिविहितात्मकेषु महानगरेषु अन्यतमं भवति बी एम् सि। ७५,४२७ कोटि रूप्यकाणि आसीत् २०२५-२६ आर्थिकवर्षस्य आयव्ययराशिः। 

  बी जे पी, शिवसेना [षिन्डे विभागः], आर् पि ऐ इत्येतेषां सख्यं, उद्धव ताकरे पक्षस्य शिवसेना राज ताकरे पक्षस्य एम् एन् एस्, शरद पवारस्य एन् सि पि इत्येतेषां सख्यं, कोण्ग्रस्, वि बी ए दलयोः सख्यं च परस्परं स्पर्धन्ते। 

 बि एम् सि मध्ये २२७ प्रशास्यमण्डलानि - wards - सन्ति। एककोट्यधिके मतदायकाः सन्ति। २९ नगरसभासु सार्धत्रिकोटिसंख्यकाः मतदायकाः च सन्ति।

 ऊन१९वयस्कानां क्रिकट् विश्वचषकः समारब्धः। 

हरारे> क्रिकेट क्रीडाक्षेत्रस्य कौमारताराणां युद्धं समारब्धम्। ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडाः सिम्बाब्वे नमीबिया राष्ट्रद्वये  सम्पत्स्यन्ते। 

  आहत्य १६ दलाः चतुर्षु संघेषु स्पर्धन्ते। भारतम् अन्तर्भूयमाने बी संघे बङ्गलादेशः, न्यूसिलान्टः, यू एस् इत्येतानि राष्ट्राणि च सन्ति।

 भारत-न्यूसिलान्ट् एकदिनम्

द्वितीयस्पर्धायां न्यूसिलान्टः विजितः।

न्यूसिलान्टाय शतकं प्राप्य श्रेष्ठक्रीडकत्वेन चितः डारिल् मिच्चलः। 

राज्कोट्> भारत-न्यूसिलान्टयोः स्पर्धात्रयात्मिकायाः एकदिन क्रिकेट परम्परायाः द्वितीये प्रतिद्वन्द्वे न्यूसिलान्टस्य सप्तद्वारकाणां विजयः। डारिल् मिच्चलस्य शतकेन [१३१*] विल् यङ् नामकस्य अर्धशतकेन [८७] च २८५ इति विजयलक्ष्यम् न्यूसिलान्टः अनायासेन प्राप। अनेन विजयेन प्रथमस्पर्धाविजयिना भारतेन समं १-१ इति समस्थितिं भजते न्यूसिलान्टः । अन्तिमा एवं तृतीया  स्पर्धा परम्परालब्धये निर्णायकप्राधान्यमावहति। 

  प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त द्वारकैः २८४। तत्र के एल् राहुलः भारताय शतकं प्राप्तवान् आसीत्। न्यूसिलान्टः ४७. ३ क्षेपणचक्रेषु त्रिभिः द्वारकैः २८६।

 जम्मु-काश्मीरे भीकर-सेनयोः प्रतिद्वन्द्वः। 

नियन्त्रणरेखायां ड्रोण् यन्त्राणि।

श्रीनगरं> कठुव जनपदस्थे नजोट् काननमण्डले सुरक्षासेना भीकराश्च मिथः भुषुण्डिप्रयोगः जातः। गतसप्ताहं यावत् जेय्षे मुहम्मदीयभीकरेभ्यः सुरक्षासेनया मार्गणमारब्धमासीत्। भीकरैः भुषुण्डिप्रयोगे जाते सैन्येन प्रतिप्रयोगः कृतः। 

  रजौरि जनपदे नियन्त्रणरेखायाः समीपं मंगलवासरे द्वयोः ड्रोणयन्त्रयोः सञ्चारसान्निध्यमभवत्। भीकराणां ड्रोण् इति सूच्यते।

Wednesday, January 14, 2026

 पश्चिमवंगः। 

राज्ये 'निपा' बाधा ; द्वे अनुवैद्ये कठिनतरावस्थायाम्। 

कोल्कोत्ता> पश्चिमवंगस्य बारासात् प्रान्ते निजीयातुरालये वृत्तिं कुर्वत्यौ द्वे अनुवैद्ये निपावैराणुबाधिताः जाताः इति दृढीकृतम्। परिचर्यायां वर्तमानयोः एतयोरवस्था कठिनतरा वर्तते। वैराणुबाधायाः स्रोतावगमनाय अन्वेषणमारब्धमिति राज्याधिकारिणी नन्दिनी चक्रवर्ती निगदितवती।

 राज्य-राष्ट्रीय-स्तरे राकेश-कण्डवालः छात्रैः सह योगेन प्रसृत:

केटरम् > मार्गदर्शनं कुर्वन् मुख्यातिथिः श्री ऋषिकण्डवालः अवदत्—

“संयमः अनुशासनं च एव योगः। अल्पवयसि एव योगाभ्यासेन या प्रतिभा अर्ज्यते, सा अस्माकं सभ्यता-संस्कारयोः प्रतीकम्। आधुनिक-कौशल-संयुक्तयोगासनानि सम्पूर्ण-जीवनस्य स्वास्थ्याय भवितुमर्हन्ति। राकेशः कण्डवालः कण्वनगरीतः प्रदेशे देशे च विद्यार्थिभिः योगस्य कीर्तिं प्रसारयति।”

 संस्कृतक्षेत्रस्य आचार्यः शारीरिक-शिक्षकश्च राकेशः कण्डवालः योगक्षेत्रे विशिष्टां उपलब्धिं प्राप्नोति। सः 2011 वर्षात् आरभ्य संस्कृतशिक्षणेन सह शारीरिकशिक्षायां योगप्रशिक्षणमपि ददाति। तस्य छात्राः जनपदे, प्रदेशे, राष्ट्रस्तरे च विजयध्वजं प्रसारयन्ति। तस्य पुत्रः सार्थकः कण्डवालः अपि योगासनेषु गिनीज-वर्ल्ड-बुक इत्यत्र स्वनामाङ्कनं कृतवान्। अद्य तेषां माध्यमेन विविधेषु क्षेत्रेषु योगशालाः सञ्चालिताः सन्ति, छात्राः प्रशिक्षकरूपेण योगप्रशिक्षण-कार्यशालाः अपि सञ्चालयन्ति।

एतस्य वर्षस्य प्रारम्भे तेषां निज-आवासे सार्थकयोगशाला क्रीडायोगासन-कार्यशालायाः विधिवत् उद्घाटनं सम्पन्नम्, यस्याः अध्यक्षपदे श्रीमती कविता कण्डवाल: विराजन्ते, संरक्षकः राकेशः कण्डवालः अस्ति। प्रशिक्षकरूपेण सन्तोषी रावत:, सोनम रावत:, शुभम् रावत:, सार्थकः कण्डवालः इत्यादयः तेषां शिष्याः प्रतिदिनं योगप्रसारे महत्त्वपूर्णं योगदानं ददति।

 सभ्यता-संस्कारयोः प्रतीक: योग: - "ऋषिकण्डवाल:"

-कुलदीपमैन्दोला

      कण्वनगरी>कोटद्वारे योगक्षेत्रे सार्थकयोगशाला- योगासन-क्रीडा-प्रशिक्षण-कार्यशालायाः सफलं समापनम् सञ्जातम् । ख्यातिप्राप्तैः योगविद्यार्थिभिः प्रशिक्षकैश्च संयुक्तरूपेण कार्यशाला आयोजिता। अस्याः कार्यशालायाः समापनं मङ्गलवासरे हर्षोल्लासेन सम्पन्नम्। अवसरेऽस्मिन् योगासन-प्रतियोगिता, एकल-नृत्य-प्रतियोगिता, चित्रकला-प्रतियोगिता, तथा पुरस्कार-वितरण-सम्मान- समारोहः अपि आयोजितः।

     कार्यक्रमस्य शुभारम्भः मुख्यातिथिना श्री ऋषिकण्डवाल-महाभागेन (सिंचन-परामर्शक-उपाध्यक्षः, सम्मानप्राप्त-राज्यमन्त्री – उत्तराखण्ड-सर्वकार:) दीपप्रज्वलनेन कृतः। मुख्यातिथिना बालकैः सह गणमान्य-अतिथयः छात्राश्च सम्मानिताः, पुरस्काराश्च वितरिताः। राष्ट्रीयस्तरे पदक-प्राप्तेषु क्रीडकेषु बालयोगी सार्थकः कण्डवालः, संस्कृतिः गुसाईं, सन्तोषी रावत:, किशिता गुप्ता इत्येते विशेषरूपेण सम्मानिताः। तथा प्रतियोगितासु प्रथम-द्वितीय-तृतीय-स्थान-प्राप्ताः सर्वे प्रतिभागिनः पदकप्रमाणपत्रैश्च अलंकृताः। एतत् आयोजनम् । सार्थकयोगशालायाः कृते नितान्तं गर्वकरः क्षणः अभवत्।

     कार्यक्रमे डिस्कवर् उत्तराखण्ड 24 न्यूज़ इत्यस्य प्रतिनिधिः श्री अम्बेशः पन्तः, डॉ. रमाकान्तः कुकरेती, कुलदीपः मैन्दोला, रोशनः गौडः, जितेन्द्रः धस्मानः, ममता गौडः, जनार्दनः द्विवेदी, प्रमोदः कण्डवालः, जगदम्बा कण्डवाल:, अञ्जलिः विष्ट:, पूजा रावत: तथा सर्वे अभिभावकाः उपस्थिताः सन्तः पूर्णं सहयोगं प्रदत्तवन्तः।

 संसदः आयव्ययपत्रोपवेशनं जनु. २८तमः आरप्स्यते। 

आयव्ययपत्रं फेब्रुवरि प्रथमदिनाङ्के। 

नवदिल्ली> तृतीयमोदिप्रशासनस्य द्वितीयम् आयव्ययपत्रोपवेशनं जनुवरि २८ तमदिनाङ्कतः आरभ्य एप्रिल् द्वितीयदिनाङ्कपर्यन्तं सम्पत्स्यते। प्रशासनस्य अस्य वर्षस्य आयव्ययपत्रं फेब्रुवरि प्रथमदिनाङ्के रविवासरे वित्तमन्त्री निर्मला सीतारामः लोकसभायां प्रस्तौष्यति। राष्ट्रस्य आर्थिकावलोकनपत्रं जनु. २९ तमे दिनाङ्के प्रस्तौष्यति। 

  आयव्ययपत्रसम्मेलनात् आरभ्य संसदि २२ प्रादेशिकभाषासु परिभाषाः लप्स्यन्ते इति सभानाथेन ओं बिर्लावर्येण प्रोक्तम्। सदस्याः प्रादेशिकभाषया भाषितुं शक्यन्ते। भाषणं  संसदा अङ्गीकृतासु २२ भाषासु अन्तर्भवति चेत् परिभाषा लप्स्यते।

 केरलम्।

कौमारकेरलस्य राज्यस्तरीयकलोत्सवः अद्य आरभते। 

कलोत्सवस्य मुख्यवेदिका। 

तृश्शूर्> ६४ तमः केरलविद्यालयीयकलोत्सवः बुधवासरे तृश्शूर् नगरे समारभते। अद्य आरभ्य १८ दिनाङ्कपर्यन्तं २५ वेदिकासु १२,००० छात्राः २४९ साहित्यकलाप्रकरणेषु स्वप्रतिभाः स्पर्धाभावेनैव प्रकाशयिष्यन्ति। 

  बुधवासरे प्रभाते दशवादने मुख्यमन्त्री पिणरायि विजयः कलामेलायाः उद्घाटनं करिष्यति। शिक्षामन्त्री वि शिवन् कुट्टिः अध्यक्षः भविष्यति। १८ तमे दिनाङ्के सम्पत्स्यमाने समाप्तिसम्मेलने कैरल्याः जनप्रियः चलच्चित्रनटः मोहन लालः मुख्यातिथिः स्यात्।

Tuesday, January 13, 2026

 राष्ट्रनगरेषु ४४% संख्यकानि 

वायुमलिनीकरणे चिरस्थायीनि।

नवदिल्ली> राष्ट्रस्य नगरेषु ४४% संख्यकानि दीर्घकालिकां वायुमलिनीकरणसमस्याम् अभिमुखीकुर्वन्तीति Center for Research on Energy and Clean Air - CRECA - नामिका संस्था। भारतस्थेषु ४०४१ नगरेषु विधत्ते अनुसन्धानात्मके अनुशीलने १७८७ संख्यकेषु वायुमलिनीकरणं चिरस्थायी भवति। एतावत् तीव्रतरेषु  मलिनीकृतवायुयुक्तेषु नगरेषु केवलं चतुर्षु प्रतिशतमेव - ४%- (१३० नगरेषु) राष्ट्रिय शुद्धवायुपरियोजना [NCAP - National Clean Air Project] सर्वकारेण क्रियते इति सूच्यते। 

  अधिकाधिकं वायुमलिनीकृतनगराणि उत्तरप्रदेशे वर्तन्ते - ४१६।राजस्थाने १५८, गुजराते १५२, मध्यप्रदेशे १४३, पञ्चाबे १३६, बिहारे १३६, पश्चिमवंगे १२४ - इत्येवं भवति समीपस्थराज्यानां पट्टिका। २०२५ तम वर्षस्य अनुशीलनानुसारं मेघालयस्थं बिर्णीहट्, दिल्ली, उत्तरप्रदेशस्थं गासियाबादः इत्येतानि नगराणि अधिकतमानि वायुमलिनीकृतानि नगराणि। 

  केरले स्थिरमलिनीकरणनगरं नास्ति।

 केरले कोच्ची, कोष़िक्कोट्, तिरुवनंतपुरं, एलूर्, कण्णूर् नगराणि अनुशीलनविधेयानि  अभवन्नपि कस्मिंश्चिदपि नगरे चिरं मलिनीकरणं नाधिगतम्। उपग्रहसूचिकाम् आधारीकृत्य आसीत् अनुशीलनम्। २०१९तः आरभ्य पञ्च वर्षेषु १७८७ नगरैः  अनुस्यूततया राष्ट्रिय वार्षिक मलिनीकरणमानपरिधिः - २. ५ - उल्लंघिता।

 वेनस्वेलायाः आचर्यमाणाध्यक्षरूपेण ट्रम्पः स्वयमुद्घोषितः। 

वाषिङ्टणः> वेनस्वेलायाः आचर्यमाणाध्यक्षपदे [Acting President] स्वयमारुह्य 'ट्रूत् सोष्यल्' नामके नवमाध्यमे तद्वार्ताम्  आत्मना एव उद्घोषितवान् यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः। 

  मासेSस्मिन् वेनस्वेलायाम् अधिनिवेश्य राष्ट्रपतिं निकोलास् मडुरोमं पत्न्या सह निगृह्य कारागारे निक्षिप्तवान् ट्रम्पः।

 पि एस् एल् वि विक्षेपणं पराजितम्। 

PSLV C-62 इत्यस्य विक्षेपणावसरे। 

चेन्नई> भारतीय बहिराकाश गवेषणसंघटनस्य [ISRO इस्रो] अस्य वर्षस्य प्रथमविक्षेपणदौत्यं 'पि एस् एल् वि - सि 62' नामकं पराजितमभवत्। श्रीहरिक्कोट्टा सतीष् धवान् बहिराकाशकेन्द्रात् ह्यः प्रभाते १०. १७ वादने आसीत् विक्षेपणम्। विक्षेपण्याः तृतीयांशस्य विश्लेषणानन्तरमासीत् साङ्केतिकदोषः आविर्भूतः। सोपानचतुष्टयोपेतस्य   विक्षेपणस्य सोपानद्वयं विजयकरमासीत्। विक्षेपणवाहनस्य कः दोषः जात इति न विज्ञातम्। 

  भौमनिरीक्षणाय उपयुज्यमानम् अन्वेषाभिधानम् उपग्रहमभिव्याप्य १६ उपग्रहाः विक्षिप्तः आसन्। ४०० कि मी उन्नतेः १६ उपग्रहाः अपि समुद्रं निपतिताः।

Monday, January 12, 2026

 इराने आतुरालयः आहतैः अतिशेते। 

टेह्रान्> तीव्रप्रक्षोभेण कलुषिते इराने आतुरालयाः व्रणितैः परिधिमतिक्रामन्ति। आतुरालयं नीतेषु शिरसि वा नेत्रेषु वा गोलिकाशस्त्रप्रहृतानां संख्या अधिकतरा इति सूच्यते। आवश्यानुसारं स्वास्थ्यप्रवर्तकाः वा शस्त्रक्रियाकुशलाः वा न सन्ति। सहस्रशः जनाः व्रणिताः सन्तः आतुरालयान् आश्रयन्ति।

 केरलम्। 

शबरिगिरौ मकरज्योतिदर्शनं बुधवासरे। 

'तिरुवाभरणघोषयात्रा अद्य आरभते। 

तिरुवाभरणघोषयात्रा आरभते। 

पत्तनंतिट्टा> शबरिगिरितीर्थाटनस्य परिसमाप्तिं आलेख्यमाना 'मकरविलक्क्' इत्याहूयमाना दीपाराधना चतुर्दशदिनाङ्के सायंसन्ध्यायां सम्पत्स्यते। पोन्नम्पलमेट् इत्यतः दृश्यमानाय मकरज्योतिदर्शनाय च लक्षशः 'अय्यप्पाः' शबरिगिरौ प्रान्तप्रदेशेषु च द्वित्राणि दिनानि यावत् भक्तिपुरस्सरं प्रतीक्षमाणाः वर्तन्ते। 

 मकरविलक्क् दीपाराधनसमये देवविग्रहम् अलङ्कर्यमाणानि विशिष्टाभरणानि वहन्ती घोषयात्रा - तिरुवाभरणघोषयात्रा - पन्तलं राजभवनस्थात् वलियकोयिक्कल् मन्दिरात् अद्य समारब्धा। आभरणयुक्तानि पेटकानि वोढुं नियुक्तः संघः पादचलनेनैव बुधवासरे सायं  सन्निधानं प्राप्स्यति।

Latest newsLatest news