केरलम्।
शबरिगिरौ मकरज्योतिदर्शनं बुधवासरे।
'तिरुवाभरणघोषयात्रा अद्य आरभते। 
तिरुवाभरणघोषयात्रा आरभते।
पत्तनंतिट्टा> शबरिगिरितीर्थाटनस्य परिसमाप्तिं आलेख्यमाना 'मकरविलक्क्' इत्याहूयमाना दीपाराधना चतुर्दशदिनाङ्के सायंसन्ध्यायां सम्पत्स्यते। पोन्नम्पलमेट् इत्यतः दृश्यमानाय मकरज्योतिदर्शनाय च लक्षशः 'अय्यप्पाः' शबरिगिरौ प्रान्तप्रदेशेषु च द्वित्राणि दिनानि यावत् भक्तिपुरस्सरं प्रतीक्षमाणाः वर्तन्ते।
मकरविलक्क् दीपाराधनसमये देवविग्रहम् अलङ्कर्यमाणानि विशिष्टाभरणानि वहन्ती घोषयात्रा - तिरुवाभरणघोषयात्रा - पन्तलं राजभवनस्थात् वलियकोयिक्कल् मन्दिरात् अद्य समारब्धा। आभरणयुक्तानि पेटकानि वोढुं नियुक्तः संघः पादचलनेनैव बुधवासरे सायं सन्निधानं प्राप्स्यति।
Latest newsLatest news