ऊन१९ क्रिकट् विश्वचषकः।
प्रथमस्पर्धायां भारतस्य विजयः।
प्रथमस्पर्धायां भारतक्रीडकाः।
अद्य भारत-बङ्गलादेशस्पर्धा।
बुलवायो (सिम्बाब्वे)> ऊननवदशवयस्कानां क्रिकट् विश्वचषकस्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतेन प्राप्तस्य आधिकारिकविजयस्य उत्साहे अद्य द्वितीयस्पर्धायै भारतदलः सन्नद्धः। शनिवासरे भारतसमयानुसारं मध्यह्ने एकवादनतः बङ्गलादेशं विरुद्ध्य बुलवायो इत्यत्र अस्ति स्पर्धा।
गुरुवासरे सम्पन्ने 'ए' संघस्य प्रथमे प्रतिद्वन्द्वे भारतं यू एसं पराजयत। यू एसं ३५. २ क्षेपणचक्रेषु १०७ धावनाङ्कैः बहिर्नीतवान् भारतदलः वृष्ट्नियमानुसारं १७. २ क्षेपणचक्रेषु विजयतीरं प्राप।