भारत-न्यूसिलान्ट एकदिनक्रिकट्
प्रथमस्पर्धायां भारतस्य विजयः।.jpeg)
विराटकोलिनः कन्दुकताडनम्।
वडोदरा> अर्हं शतकं विनष्टमपि विराटकोलिनः अत्युज्वले कन्दुकताडनप्रभावे भारत-न्यूसिलान्टयोः एकदिनक्रिकट्स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य द्वारकचतुष्टयस्य विजयः।
प्रथमं कन्दुकताडनं कृतवान् न्यूसिलान्टदलः ५० क्षेपणचक्रेषु अष्ट द्वारकाणां विनष्टे ३०० धावनाङ्कान् सम्पादयामास।प्रत्युत्तरक्रीडायां भारतदलः ४९ क्षेपणचक्रेषु ६ द्वारकाणां विनष्टे ३०६ धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप। परम्परायाः द्वितीयस्पर्धा बुधवासरे सम्पत्स्यते।
विराट कोहली भारतविजयस्य शिल्पी अभवत्। ९१ कन्दुकेषु ८ चतुष्कं, एकं षट्कं चाभिव्याप्य सः ९३ धावनाङ्कान् प्राप्तवान्। नायकः शुभमान गिलः (५६/ ७१), उपनायकः श्रेयस् अय्यरः (४९/४७), को एन् राहुलः (२९/२१), हर्षित राणः (२९/२३) इत्येते च भारतस्य विजये प्रधानभागम् अवहन्।