महाराष्ट्रम्।
नगरसभानिर्वाचनं सम्पन्नम्।
मुम्बय्यां जनविधिः आकाङ्क्षां भजते।
मुम्बई> भारतराष्ट्रस्य आर्थिकराजधानीति प्रसिद्धिं भजमानं मुम्बैयम् अभिव्याप्य २९ महानगरेषु नगरेषु च तद्देशीयनिर्वायनं समभवत्।
किन्तु सर्वाण्यपि नेत्राणि बृहन्मुम्बई मुनिसिपल् कोर्परेषन् [बी एम् सि] इति कथ्यमानम् आर्थिकराजधानीं केन्द्रीकृतानि सन्ति। बी एम् सि संस्थायाः प्रशासनपदाप्राप्तिः सर्वेषां राजनैतिकदलानाम् आत्माभिमानस्य विषयो भवति। एष्याभूखण्डे बृहत्तरेषु आयव्ययपत्रकराशिविहितात्मकेषु महानगरेषु अन्यतमं भवति बी एम् सि। ७५,४२७ कोटि रूप्यकाणि आसीत् २०२५-२६ आर्थिकवर्षस्य आयव्ययराशिः।
बी जे पी, शिवसेना [षिन्डे विभागः], आर् पि ऐ इत्येतेषां सख्यं, उद्धव ताकरे पक्षस्य शिवसेना राज ताकरे पक्षस्य एम् एन् एस्, शरद पवारस्य एन् सि पि इत्येतेषां सख्यं, कोण्ग्रस्, वि बी ए दलयोः सख्यं च परस्परं स्पर्धन्ते।
बि एम् सि मध्ये २२७ सभांशाः - wards - सन्ति। एककोट्यधिके मतदायकाः सन्ति। २९ नगरसभासु सार्धत्रिकोटिसंख्यकाः मतदायकाः च सन्ति।