रफाल् विमानेभ्यः ३. २५ लक्षं कोटि रूप्यकाणां सन्धिः।
नवदिल्ली> फ्रन्च् संस्था दसो एवियेषन् इत्यस्मात् भारतीय वायुसेनायै ११४ रफाल् युद्धविमानानि क्रेतुं रक्षासम्भारसमित्याः अनुज्ञा लब्धा। वर्तमाने काले ३६ रफाल् युद्धविमानानि व्योमसेनायाः सन्ति।
३. २५ लक्षं कोटि रूप्यकाणां सन्धिरिति सूच्यते। सन्ध्यनुसारं १८ विमानानि २०३० तमे वर्षे भारतं प्राप्स्यन्ति। अवशिष्टानि विमानानि भारते एव निर्मास्यन्ति। आगामिमासे यदा फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः भारतं प्राप्स्यति तदा सन्धौ हस्ताक्षरं करिष्यति।
.jpeg)