अयोध्यायां १५ कि मी परिधौ
मांसाहारस्य निरोधः।
लखनौ> अयोध्यायां श्रीराममन्दिरस्य १५ कि मी परिधौ मांसभोजनानि निरुद्धानि। प्रदेशे ओण् लेन् भोज्यवितरणं कुर्वद्भिः सस्येतरभोज्यानां वितरणं क्रियते इति परिदेवनानि लब्धानि इत्यत एव अयं प्रक्रमः इति अयोध्या नगरसभाधिकृतैः निगदितम्। कतिपयेषु भवनाधिवासेषु [Home stays] मांसभोज्यानि मदिरापानीयानि च वितरन्ते इति परिदेवनमस्ति।
२०२५ तमे वर्षे १४ कि मी परिधौ मद्यमांसादीनां वितरणं निरुध्य आदेशः कृतः अपि फलप्रदं नासीत्। अत एव नूतनोSयमादेशः।