भारत-न्यूसिलान्ट् एकदिनम्
द्वितीयस्पर्धायां न्यूसिलान्टः विजितः।
न्यूसिलान्टाय शतकं प्राप्य श्रेष्ठक्रीडकत्वेन चितः डारिल् मिच्चलः।
राज्कोट्> भारत-न्यूसिलान्टयोः स्पर्धात्रयात्मिकायाः एकदिन क्रिकेट परम्परायाः द्वितीये प्रतिद्वन्द्वे न्यूसिलान्टस्य सप्तद्वारकाणां विजयः। डारिल् मिच्चलस्य शतकेन [१३१*] विल् यङ् नामकस्य अर्धशतकेन [८७] च २८५ इति विजयलक्ष्यम् न्यूसिलान्टः अनायासेन प्राप। अनेन विजयेन प्रथमस्पर्धाविजयिना भारतेन समं १-१ इति समस्थितिं भजते न्यूसिलान्टः । अन्तिमा एवं तृतीया स्पर्धा परम्परालब्धये निर्णायकप्राधान्यमावहति।
प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त द्वारकैः २८४। तत्र के एल् राहुलः भारताय शतकं प्राप्तवान् आसीत्। न्यूसिलान्टः ४७. ३ क्षेपणचक्रेषु त्रिभिः द्वारकैः २८६।