विश्वस्मिन् राजनैतिक-आर्थिकासमत्वं वर्धते।
लोकस्य अतिदारिद्र्यनिर्मार्जनाय आवश्यकी सम्पत् विश्वसम्पन्नानां सकाशे!
दावोस्> विश्वस्मिन् राजनैतिक-आर्थिकासमत्वं गौरवतरं वर्धमानमिति 'ओक्स्फेम्' [OXFIRM] नामकस्य अधिकारसंघटनस्य आवेदनम्। २०२५ तमे विश्वस्य अतिसम्पन्नानां धनराशिः गतपञ्चवर्षाणां धनराशेः त्रियुगलम् अवर्धत इति आवेदनपत्रे सूच्यते। स्विट्सर्लान्टस्थे दावोसे आयोज्यमानस्य ५६ तम आगोल आर्थिक संघटनस्य [Global Economical Form] सांवत्सरीयोपवेशनस्य भूमिकारूपेण आसीत् ओक्स्फेमेन प्रस्तुतवार्षिकावेदनं प्रकाशितम्।
वर्तमानीनकाले शतकोटीश्वराणां सकाशे आहत्य धनराशिः १८. ३ लक्षं कोटि डोलर् मितं [१६६२ लक्षं कोटि रूप्यकाणि] इति अभिलेख्योच्चे स्तरे वर्तते। २०२५ तमे महाधनेश्वराणां वित्तराशौ १६% वर्धनं - २. ५लक्षं कोटि डोलर् मितं- जातम्। एतत्तु विश्वस्मिन् अशेषजनसंख्यायाः अर्धांशं कल्प्यमानानां, नीचस्तरे वर्तमानानां ४१० कोटि जनानां समग्र वित्तराशेः तुल्यं भवति। इयं धनराशिः विश्वस्य अतिदौर्भिक्षाम् उन्मूलनं कर्तुं अपेक्षितधनस्य २६ गुणितमितं भवति।
लोके २५% जनाः आवश्यानुसारं भोजनमलभ्यमानाः तथा च जनसंख्यायाः अर्धांशे इदानीमपि अतिदारिद्र्ये वर्तमाने अस्ति सम्पत्तिः महाधन्कानां सकाशे एव पिण्डीक्रियते इति अहितप्रवणता। राजनैतिकस्थानमानानि सम्प्राप्तुं महाधनिकानां सामान्यजनेभ्यः ४००० गुणितस्य साध्यता कल्प्यते।
स्वकीयोपलब्ध्यर्थं अशेषे विश्वे वर्तमानानां सामान्यजनानां अधिकारान् स्वातन्त्र्याणि च निहन्य एव सामाजिक आर्थिकनियमान् नवीकर्तुमेव एतादृशाः अतिधनिकेश्वराः राजनैतिकाधिपत्यं वहन्ति इति आवेदनपत्रे सूच्यते।
६६ राष्ट्रेषु कृतस्य अन्वीक्षणस्य आधारे आसीत् ओक्सफेमस्य अनुशीलनम्। दारिद्र्यम् असमत्वं न्यायराहित्यम् इत्येतानि विरुध्य कलहायमानानां २१ संघटनानां सख्यं भवति ओक्सफेम्।