प्रधानमन्त्री अद्य केरलराजधान्याम्।
अनन्तपुरी> प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे प्रभाते केरलस्य राजधानीनगरं प्राप्नोति। भा ज पा दलप्रशास्यमानस्य अनन्तपुरी महानगरस्य विकसननयरेखायाः उद्घोषणं ११ वादने मोदिवर्यः करिष्यति।
केरले नूतन्यः चतस्रः रेल् यानसेवाः प्रधानमन्त्री उद्घाटयिष्यति। नगरे भाजपादलेन आयोज्यमाने वीथीप्रदर्शने अरि प्रधानमन्त्री भागं करिष्यति च।
