OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, January 20, 2026

 संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः।

वार्ताहर:- आचार्यदीनदयालशुक्ल:

संस्कृतभारत्याः व्रजप्रान्तस्य हरिगढशाखा षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे प्रथममासस्य अष्टादशे दिनाङ्के रविवासरे हरिगढस्थे सासनीगेटक्षेत्रवर्तिनि विश्वभारतीसार्वजनिकविद्यालये एकदिवसीयसंस्कृतभाषाप्रवेशवर्गम् आयोजयत्। कार्यक्रमस्य शुभारम्भः वैदिकमन्त्रोच्चारणेन सह दीपप्रज्वालनेन सरस्वत्याः पूजाऽर्चनया च अभवत्। सर्वप्रथमं कार्यक्रमस्य अध्यक्षा विश्वभारतीसार्वजनिकविद्यालयस्य प्रधानाचार्या च सुनीतासिंह: अस्मै वर्गाय शुभकामनाः प्राददात्। स्वल्पाहारविरामात् अनन्तरं मथुराविभागस्य संयोजकः श्यामसुन्दरशर्मा प्रशिक्षणकार्यं प्रारभत।

विशिष्टातिथिः वार्ष्णेयमहाविद्यालयस्य संस्कृताविभागाध्यक्षः देवेन्द्रकुमार: भारतीयसंस्कृतेः संरक्षणार्थं संस्कृतभाषायाः पोषणस्य संवर्धनस्य च आवश्यकतां प्रत्यपादयत्। प्रशिक्षणस्य सञ्चालनं चतुर्षु सत्रेषु अभवत्। येषु संस्कृतजिज्ञासवः संस्कृतभाषायां स्वपरिचयं लिङ्गं वचनं पुरुषः

इत्यादिविषयाणां प्रारम्भिकज्ञानेन संस्कृतमध्ययनुं प्रोत्साहिताः अभवन्। मध्याह्नभोजनानन्तरं संस्कृतभारत्याः हरिगढजनपदस्य अध्यक्षः डाॅ॰वृजेशशास्त्रि: वर्गं समबोधयत्। सः स्वसम्बोधने संस्कृतस्य वैशिष्ट्यं रेखाङ्कयन् संस्कृतभाषासंवर्धने बलं न्यदधात्। मथुराविभागसंयोजकस्य श्यामसुन्दरशर्मण: कुशले नेतृत्त्वे संयोजने च संस्कृतभाषाप्रवेशवर्गस्य प्रशिक्षणं सम्पन्नम् अभवत्। मध्यकाले वेदप्रकाशपाठकेन सरलानां सुमधुराणां च संस्कृतगीतानां प्रस्तुतिः कृता।

वर्गस्य समापनं सत्रस्य मुख्येन अतिथिना हरिगढस्य सासनीगेटक्षेत्रस्थस्य बालगोपालमन्दिरस्य प्रबन्धकेन समाजसेविना व्यवसायिना च अजयशर्मणा कृतम्। अन्ते संस्कृतभारत्याः हरिगढजनपदस्य मन्त्री डाॅ॰प्रभाशङ्करशुक्ल अतिथीनां वर्गे आगतानां संस्कृतानुरागिणां विदुषां विश्वभारतीसार्वजनिकविद्यालयस्य प्रधानाचार्यायाः च अभिनन्दनं धन्यवादम् आभारं च अज्ञापयत्। वर्गेऽस्मिन् लोकेशपचौरी, कपिलकुमारशर्मा, निश्चलगिरि:, विजेन्द्रसिंह:, सुरेन्द्रसिंह:, नकुलचौधरी, सोनीजादोंन, मोहिनी उपाध्याय, उदितनारायण:, करणपालसिंह इत्यादयः अनेके सदस्याः सहभागित्वं स्वीकृतवन्तः।