OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, January 22, 2026

 सुनिता विल्यंसः नासातः निवृत्ता। 


केप् कानवेरल्> बहिराकाशपर्यवेक्षणमण्डले नैकान् लाभान् स्वायत्तीकता भारतीयवंशजा सुनिता विल्यंसः [६०] 'नासा' नामकान्ताराष्ट्रिय बहिराकाश गवेषणसंस्थायाः सेवानिवृत्ता अभवत्। 

  नासायां २७ संवत्सराणां सेवाभ्यन्तरे त्रिवारम् अन्ताराष्ट्रियबहिराकाशनिलयं [ऐ एस् एस्] यात्रां कृतवती। ६०८ दिनानि तत्र वासं कृत्वा परीक्षणानि कृतवती च। बहिराकाशे अधिकतमसमयं चलितवती महिला इति चरित्रोपलब्धिरपि तस्याः नाम्नि वर्तते। बहिराकाशे 'मारत्तण्' नामकधावनविशेषं  कृतवान् प्रथमजनः इति चरित्रोपलब्धिरपि तस्याः नाम्नि अस्ति।