कोहलिशतकं विफलम्।
एकदिनपरम्परा न्यूसिलान्टेन प्राप्ता।
भारते न्यूसिलान्टस्य प्रथमपरम्पराप्राप्तिः। 
प्राप्तशतकः तथा परम्परायाः श्रेष्ठक्रिडकश्च न्यूसिलान्टस्य डारिल् मिचलः।
इन्दोरं> भारत-न्यूसिलान्टयोः एकदिनक्रिकट् परम्परायाः अन्तिमप्रतिद्वन्द्वं विजित्य न्यूसिलान्टः परम्परां प्राप। ४१ धावनाङ्कैः आसीत् तेषां विजयः। भारते प्रथमतया एव न्यूसिलान्टस्य एकदिनपरम्पराप्राप्तिः।
प्राप्ताङ्कसूचिका - न्यूसिलान्टः - ३३७/८, भारतं - २९६/१०। प्रथमचरणे न्यूसिलान्टस्य डारिल् मिचल् [१३७/१३१], ग्लेन् फिलिप्स् [१०६/८८] च शतकं प्राप्तवन्तौ। प्रत्युत्तरचरणे भारताय विराट कोहली शतकं [१२४/१०८] प्राप्तवानपि तत् विफलं जातम्।