प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।
OUR YouTube Channel 1. SampratiVartah |
marquee
Sunday, February 7, 2016
प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।
Saturday, February 6, 2016
Thursday, February 4, 2016
बहिर्पतितः यात्रिकः मृतः।
Wednesday, February 3, 2016
Tuesday, February 2, 2016
आयुर्वेदशास्त्रस्य शक्तिः कियती अस्तीति चिन्तनीयं भवेत्' - प्रधानमन्त्री।
कोष़िक्कोट् (केरळम् )> 'आयुर्वेदशास्त्रस्य शक्तिः कियत् अस्तीति चिन्तनीयं भवेत्' इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। आयुर्वेदः जीवशास्त्रं भवति। ह्यस्तनानां नानाविधानाम् आरोग्यसमस्यानां परिहारः आयुर्वेदे अस्तीति मोदिवर्यः अवदत्। कोष़िक्कोट्देशे स्वप्ननगर्यां आगोल -आयुर्वेद सम्मेलने विषन् कोण्केव् इति पद्धत्याः उद्घाटनं कृत्वा भाषमाणः आसीत् प्रधानमन्त्री।
आयुर्वेदशास्रं सर्म्पूणतया प्रयोगं कर्तुं वयम् श्रद्धालवः न भवेम। भारतसर्वकारेण आयुर्वेदस्य अपि च पारम्बर्यचिकित्सा सम्प्रदायस्य च प्रधान्यं तथैव प्रचारं यथायोग्यं करिष्ये। भारतेषु योगाशास्त्राय आयुर्वेदशास्त्राय च महत्वपूर्णं स्थानमस्ति। इदानीं आधुनिकी चिकित्साविधीनां कृते अधिकं धनं आवश्यकं औषधानां तु पार्श्वफलं च अनेन कारणेन पारम्पर्य चिकित्सा सम्प्रदायेषु विदग्धाः बद्धश्रद्धाः अभवन्। अन्येषां राष्ट्राणां अवस्थां संज्ञात्वा भारते आयुर्वेदशास्त्राय महत् प्रधान्यं दद्मः।
आयुर्वेदशास्त्रस्य प्रसूति गृहम् (हब्) इव केरलराज्यः वर्तते इति मोदिवर्यः अवदत्। यथा वयम् आत्मानं पश्यामः तथा अन्येषां जीविनां च मनसि निधाय पालनीयः इति अष्टाड़्गहृदयस्य वाक्यम् उक्त्वा एव प्रधानमन्त्री नरेन्द्रमोदिवर्यः तस्य भाषणं समापितवान् ।
केन्द्र आयुष् विभागमन्त्री श्रीपद् यशोनायिक् च प्रधानमन्त्रिणम् अनुगच्छति।
Monday, February 1, 2016
Sunday, January 31, 2016
भारते प्रथमतया एव सर्वकारीय विद्यालयेषु छात्राणां कृते मध्याह्नभोजनादधिकतया प्रभातभक्षणमपि दीयते। यदा विद्यालयेषु मध्याह्नभोजनं दातुमारब्धं तदा छात्राणाम् उपस्थितिसड़्ख्या वर्धिता आसीत्। प्रभातभक्षणमपि ददाति चेत् उपस्थिति सड़्ख्या इतोऽप्यधिकं वर्धयितुं शक्यते इति तेषां प्रतीक्षा । अनया पद्धत्या छात्राणां आरोग्यं पठनसामर्थ्यं च वर्धयितुं शक्यते। प्रतिदिनं सार्धदशवादने प्रभातभक्षणं, सार्धैकवादने मध्यह्नभोजनं च दातव्यमिति सर्वकारस्य विज्ञापने सूचितमस्ति।
एष्यानेट् द्वारा संप्रेषितया "कण्णाटी" इति परम्परया शतशानां निरालम्बानां जीवितदुःखानि सामान्यजनानां सर्वकारस्य च श्रद्धामानीय परिहारं कृतवानासीत्।
त्रिंशदधिकवर्षेभ्यः माध्यमलोके सम्पूर्णसान्निध्यमासीत्। इन्ड्यन् एक्स्प्रस् मातृभूमी स्टेट्स्मान् बि बि सि इत्यादिषु बहुषु माध्यमेषु स्वस्य व्यक्तिमुद्रां पातयामास।
Friday, January 29, 2016
पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।
| मेलबण्
> विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः
आस्त्रेलियायाः बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु
कृतप्रयत्नानि परिगणयन् एव पुरस्काराः दीयन्ते। अस्य वर्षस्य (2016)
आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन् नाषनल्
यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त्
वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च
भवन्ति। फिसिक्स्, एञ्चिनीयरिड़् |
-
|
नानो टेक्नोलजि आदि मण्डलेषु कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः। |
कोच्चि > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।
संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।
Wednesday, January 27, 2016
कालिफ़ोर्णिया> मातृनक्षत्रात् लक्षं कोटि किलोमीट्टर् दूरे भ्रमन्तं ग्रहं ज्योतिशास्त्रज्ञैः दृष्टः। एतावत्कालपर्यन्तं प्रत्यभिज्ञातेषु बृहत् आकारको सौरयूथो भवत्ययमिति गवेषकाः वदन्ति। ग्रहस्य एकवारं मातृनक्षत्रपरिक्रमणाय नवलक्षवर्षाणि अवश्यकानि। सूर्यस्य भूमेः च मध्ये १५ कोटि किलोमीट्टर मितिः अस्ति। १५ कोटि किलो मीट्टर् एकं अस्ट्रोणमिक् मीट्टर् इति (AU). सौरयूथे सूर्यस्य नेप्टूणस्य मध्ये 30 अस्ट्रोणमिक् मीट्टर् (AU) भवति । नूतनग्रहं तु सूर्यात् ६०० - १२०० AU भवति। फ्रान्स् राष्ट्रः प्रञ्चशाक्तिशालिषु प्रथमगणे एव। परस्परधारणया एतौ १६ सुप्रधान-उभयानुकूलपत्रे हस्ताक्षरं कृतवन्तौ।
३६ राफेल् नामकानि युद्धविमानानि क्रेतुं उभयानुकूलपत्रे हस्ताक्षरमकरोत्। ६०,००० कोटिरूप्यकाणां व्ययः प्रतीक्षते। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलादः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च मिथः संवृत्तायाः चर्चायाः अनन्तरमेव एतादृशनिर्णय अभवत्। ८०० रयिल् यानानि च स्वीकरिष्यन्ते। उभयराष्ट्रयोः मिथः प्रतिरोधसहकरणसन्धिः आगामिनिदशसंवत्सराणि अनुवर्तिष्यते। जय्तापुरे ६ आणवरियाक्टर् निलयानि स्थापयिष्यन्ते।
Tuesday, January 26, 2016
नव दिल्ली > गणतन्त्र दिनाघोषाय भारतं सज्जम् अभवत् । राज्ये सर्वत्र सुरक्षा व्यवस्था विहिता वर्तते। अस्य वर्षस्य वैशिष्ट्यं फ्रञ्च् राष्ट्रपतिः फ्रान्सो ओला मुख्यातिथिरितिI अपिच भारतसैन्येन सह फेञ्च् सैन्यमपि भागं स्वीकरोति। पठान् कोट्ट् आक्रमणकारणेन सुशक्तं सुरक्षाव्यूहं कृत्व एव आचरणम्। इतिहासे इदं प्रथमतया कृत्वा विदेशसैन्यस्य गणतन्त्र सैनिकाभ्यासे भागग्रहणम् । ५६ फ्रञ्च सैनिकाः भीकरविरुद्ध-सख्यस्य अनुबन्धतया भागं स्वीकुर्वन्ति।
अनन्तपुरी > उच्चस्तर विद्यालये १८ स्पर्धाः महाविद्यालये ५ स्पर्धाः च। आगामिनि वर्षे अघिकाः स्पर्धाः आयोजनीयाः इति अभिलषन्ति संस्कृतप्रेमिणः।
कोच्चि > अनन्तपुरी पकल्क्कुरि एम.के.के. नायर् सांस्कारिककेन्द्रस्य पण्डितरत्नपुरस्कारेण डा. एम.वि. नटेशः सम्मानितः। कालटी श्री शङ्कराचार्य विश्वविद्यालये असोसियेट् प्रोफ़स्सर् , श्री शङ्कर अन्ताराष्ट्र विद्यालयस्य निदेशकः च भवति एषः। एतावत्कालपर्यन्तं संस्कृतभाषायाः कृते अनेन कृतम् योगदानं परिगणयन् एव पुरस्कारनिर्णयः।
Monday, January 25, 2016
![]() |
| डॉ.रवीन्द्र-नागर |
दक्षिण भारतस्य अभिनेत्री कल्पना निर्याता
अभिनेत्री कल्पना अद्य प्रातः निर्याता। हृदयाघातेन मृता इति भिषग्वराः। हैदराबादे चलनचित्रे अभिनयं कुर्वती आसीत्। तेलुगु चित्रस्य चित्रीकरणमेव आसीत् ।
केरलेषु विद्यमानासु नदीषु दीर्धतमा भवति इयं भारतप्पुष़ा अथवा निळा नदी। अस्याः नद्याः तीरे एव प्रसिद्धं मामाङ्कमहोत्सवं संञ्चालयन्ति स्म। अस्मिन् वर्षे आयोज्यमाने मामाङ्क स्मारकमेलने आष़्वाञ्चेरि तम्प्राक्कल्, सामूतिरि राजः, वल्लुवनाट् राजः , अक्कित्तं इत्येते च सभामञ्चम् अलङ्करिष्यन्ति। तेषां सन्निध्ये सङ्गीतात्मकतया निळाष्टकस्य आलपनं भविष्यति।
Sunday, January 24, 2016
सोल्> अत्तर कोरियायाः आणाव योजनाम् अधिकृत्य विचिन्तनाय कोरियायाः राष्ट्रपतिना पार्क् ह्यून्है वर्येण उत्तरकोरियां विहाय अन्यानां राष्ट्रपञ्चकानाम् उपस्थितियोगः निमन्त्रितःl जनुवरि ६ दिनाङ्के उत्तर कोरियया कृतान् आणवायुधपरीक्षणान् विरुध्य उपरोधम् आयोजयतुं चीना - अमेरिक्का राष्ट्रयोः मध्ये चर्चां प्रचलन् अस्ति। आस्मिन् सन्दर्भे दक्षिण कोरियायाः इयं चर्चा प्राधान्यमर्हति।
'बार् 'उत्कोचविषये मन्त्रिणः बाबोः स्थानमपि विनष्टम्।
कोच्ची - मदिरालयविक्रयणं संबध्य आर्थिकभ्रष्टाचारविषये केरलस्य एक्सैस् विभागस्य मन्त्री के बाबुवर्यः त्यागपत्रं समर्पितवान्। बाबुवर्यंमधिकृत्य उन्नीते आरोपणे अन्वेषणमावश्यकमिति नीतिपीठस्य परामर्शानुसारमेव त्यागपत्रसमर्पणम्।
Saturday, January 23, 2016
इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति।
प्रियमानसम् संस्कृत-चलच्चित्रम्
Friday, January 22, 2016
Special Campaign For Sanskrit
To See Syllabus- Click here (Syllabus)
To File your Opinion- Click here (Your OPINION)
Our Opinion
1. Establish Sanskrit Papers into Two instead of One
2. Viva may be re-instated for more effective learning as in former Years
Thursday, January 21, 2016
अस्य महोदयस्य निधनमधिकृत्य ब्रिट्टीष् अन्तर्जाले १९४५ तमे मृतिमगात् इति सूच्यते।
१०८ उपनिषदः , भागवतम् कविता च अनेन लिखिताः।
नटनविस्मया मृणाळिनी साराभायी कालयवनिकायां विलीना।
हैदराबाद> हैदराबाद् सर्वकलाशालायां दलितछात्रस्य रोहित् वेमुल नामकस्य आत्माहुतिविषये केन्द्रमन्त्रिणः बणटारु दत्तात्रेयस्य स्थानत्यागाय सम्मर्दः शक्तः अभवत्। तं विरुद्ध्य व्यवहारः कृतः इत्यतः केन्द्रमन्त्रिसभातः सः निष्कासितव्य इति कोण्ग्रस् दलेन संयुक्तान्दोलनसमित्या च निर्दिष्टम्।
ह्यः अपि कलालयपरिसरः संघर्षपूरितः आसीत्। तत्र निरोधनाज्ञा विज्ञापिता।
तृश्शूर्> केरले तृश्शूर् नगरसमीपे तलोर् प्रदेशे लघुभूकम्पः । मापिन्यां ३.४ अङ्कितः भूकम्पः मङ्गलवासरे अतिप्रभाते जातः।जनापायः न ज्ञापितः।
अनन्तपुरी> केरलेषु सर्वकारसेवकेभ्यः अध्यापकेभ्यश्च समित्या निर्दिष्टं परिष्कृतं वेतनं मार्च् मासादारभ्य दातुं निर्णीतम्।२०१४ जूलायीतः आरभ्य भूतकालप्राबल्यमस्ति। परिष्करणमनुसृत्य वेतने २००० - १२००० रूप्यकाणां वृद्धिःभविष्यति।
भुवनेश्वर् > ओडीषाराज्यस्य पुरीसमुद्रतीरे कुलविनाशभीषणिम् अभिमुखीकुर्वन्तः ओलिव् रिड्लि वंशीयाः १५० समुद्रकूर्माः संघीभूय मरणं प्राप्ताः। कारणमव्यक्तं वर्तते। अनधिकृतैः धीवरैः हताः इति सन्देहः अस्ति।
Wednesday, January 20, 2016
Click here for Syllabus
एष्याया: बृहत्तरः विद्यालयकलेत्सव: केरल राज्ये अनन्तपुरे आरब्ध:।









