चेन्नै > राज्ये दश विपक्षसामाजिकाः त्यागपत्रं समर्प्य जयललितायाः ए ऐ ए डि एम् के दलेन सह युक्तवन्तः। विजयकान्तस्य डिएंडिके दलात् ८ सामाजिकानां त्यागपत्रसमर्पणात् तस्य विपक्षनेतृस्थानं विनष्टम्। तान् विना पुतिय तमिष़कं पिएंके दलाभ्याम् एकैकः अपि शासनपक्षे युक्तः।
कस्यापि दलस्य विपक्षनेतृस्थानाय अर्हता नास्ति इदानीम्।
एकस्मै रेल्यानाय नवषष्टि वर्षस्य प्रतीक्षा।
नवदिल्ली > भारतं स्वतन्त्रतां प्राप्य नवषष्टि वर्षाणि अतीतानि। किन्तु आसां राज्ये विद्यमान बंग्लादेश् राष्ट्रस्य सीमाप्रान्तेषु वासमानेभ्यः जनेभ्यः ऎदंप्राथम्येन ह्यः नूतनमेकं रेल्यानम् प्राप्नोत्। सिल्च्चर् - नवदेहली-पूर्वोत्तर-सम्पर्ककान्ति एक्स्प्रेस इति नाम्ना प्रथितं रेल्यानम् रेल्यानविभागस्य मन्त्रीणा श्री सुरेष्प्रभुणा स्वस्य इच्छया,प्रयत्नेन च सफलीकृतः। रेल्यानमिदं रेल्यानमन्त्रालयस्य चरित्रे सुवर्णाक्षरैः रेखयति एव।
कचार् इति कथ्यमान भारतस्य सीमामण्डलात् राष्ट्रस्य राजधानीं नवदेहलीं प्राप्तुं एतावता रेल्यानस्य सेवनं नासीत्। प्रदेशोfयं प्रसिद्धः प्रधानश्चास्ति इति आश्चर्य सत्य विषयः त्रिपुरा,मणिप्पूर्,मिसोरां,एतेषां त्रयाणां राज्यानां प्रवेशनमार्गः भवति एषः प्रदेशः। स्वतन्त्रतान्तोलने एतस्मात् प्रदेशात् बहूनां भागभागित्वमासीदिति श्रद्धेयः विषयः। तथापि कस्मात् एतावत्कालं रेल्यानस्य अभाव इति प्रश्ने सति सर्वे मौनं भजन्ति।
ह्यः सिल्च्चल् रेल्याननिस्थानकात् केन्द्रमन्त्रिणा सुरेष्प्रभुणा यानस्यास्य प्रथमयात्रायै हरितपताकां प्रदर्श्य अनुमतिं अयच्छत।
२०२० तमे वर्षे भारतस्य पूर्वोत्तर राज्येभ्यः नवदेहल्यै रेल्यानानां यात्रा आरभ्यते इति प्रभुणा स्पष्टं सूचितम्। २०१७-१९ वर्षेभ्यः आसां, मणिप्पूर्, अरुणाचल्प्रदेश्,त्रिपुरा राज्येभ्यः बोड्गेज् रेल् सर्क्यूट् भविष्यति इत्यपि तेन प्रख्यापितम्।
भारते रेल्यानविभागस्य विकसनस्य प्रत्यक्षोदाहरणमेव एतत्। एते निर्णयाः भारतीय रेल्यानविभागस्य मकुटे सुवर्णाक्षरत्वेन रेखयति।
वाषिड़्टण् > अत्याधुनीक डिजिट्टल् छायाग्रहण्या सह रष्यायाः विमानं यु.एस् राष्ट्रस्य उपरि उड्डयितुम् अनुज्ञां प्राप्तुं श्रमं करिष्यति। चतुस्त्रिंशत् (३४)राष्ट्रेण संयुक्ततया हस्ताक्षरं कृतं भवति "सार्वजनिक -आकाशसन्धिं " रष्या- यु एस् राष्ट्रयोः भागभागित्वेन भवतः। किन्तु निरीक्षणविमानडयनाय रष्याराष्ट्रं प्रति अनुमतिं ददाति चेत् यु.एस् राष्ट्रस्य रहस्यनि ज्ञातुम् उपकारकं भवेत् इति यु.एस् राष्ट्रस्य रहस्यान्वेषणवृन्तेन शासनाधिकारिण: निर्देशं दत्तः। ये राष्ट्राः सन्धौ हस्ताक्षरं कृतवन्तः तेषां राष्ट्स्योपरि , आयुधं विना डयनाय, उपकारकाणि विज्ञापनानि दानाय च अनुमति: अनया आकाशसन्धिना लब्धः। किन्तु रष्याराष्ट्रः नूतनसाड़्केतिकविद्यया तेषां स्वार्थे प्रयोगं करिष्यति इत्यनेन विरुद्धफलप्राप्तिः एव भविष्यतीति यु.एस् रहस्यविभागस्य शड़्का ।








