OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 30, 2017

रसकणिका

बालकः - किमर्थं रोदिषि ??
बालिका- परीक्षायां न्यूनाः अङ्का लब्धाः मया अतः ...।
बालकः- तथापि कति अङ्का: प्राप्ता: ??
बालिका - केवलं 88 प्रतिशतम्..
बालकः- अयि! ईश्वरात् बिभेहि.....एतावतेषु अङ्केषु तु द्वौ बालकौ  उत्तीर्णौ भवितुं शक्नुतः ।

Friday, December 29, 2017

तलाखत्रितयनिरोधनविधेयकं लोकसभया अङ्गीकृतम्। 
                   नवदिल्ली > एकवारेण तखाखत्रयम् उक्त्वा वैवाहिकबन्धस्य निरासः [तलाख् इ बिद्दत्त्] अभिशंसापराधेन व्यवस्थाप्यमानं विधेयकं भारतलोकसभया अङ्गीकृतम्। विधेयकस्य व्यवस्थानुसारं तलाखत्रयमुक्वा विवाहबन्धस्य विच्छेदः क्रियते चेत् संवत्सरत्रयपर्यन्तं कारागारवासः आर्थिकदण्डश्च विधीयते। 
              केन्द्रमन्त्रिणा रविशङ्करप्रसादेन इदं विधेयकमवतारितम्। इदं विधेयकमनुसृत्य  वाक्यैः, [लिखित- वाचनरूपैः] इलक्ट्रोणिक् माध्यमैः , मार्गान्तरैः च क्रियमाणं तलाख् नीतिविरुद्धमस्ति। तलाखविधेयाः महिलाः तदाश्रिताः बालकाश्च  जीवनांशमर्हन्ति।
अफ्गानिस्थाने आत्मघात्याक्रमणं - ४० मरणानि। 
               काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरस्थे सांस्कृतिकनिलये गतदिने संवृत्ते आत्मघात्याक्रमणे चत्वारिंशत् जनाः हताः। पञ्चाशदधिकाः आहताः। आक्रमणस्य उत्तरदायित्वं इस्लामिकस्टेट् संस्थया स्वीकृतम्।  काबूलस्थानां इस्लामधर्मस्य षियाविभागानां सांस्कृतिककेन्द्रं 'ताबायान्' लक्ष्यीकृत्य आसीदाक्रमणम्।
पाकिस्थानेन कुल्भूषणस्य परिवारः अपमानितः; "देशः ऐकमत्येन तिष्ठतु”- सुषमा स्वराज्
लिषा सी. आर्

        नवदिल्ली> देशः ऐकमत्येन कुल्भूषण् जाधवस्य परिवारेण साकं तिष्ठतु इति विदेशकार्यमन्त्रिणी सुषमा स्वराज् महाभागया उक्तम्। पाकिस्थानः कुल्भूषण् यादवस्य परिवारं प्रति मानवबहुमतिं अलंघयत्। अमुं विषयमधिकृत्य भारतस्य प्रतिषेधः पाकिस्थानं प्रति प्रकटितः इति राज्यसभायां सा उक्तवती। जाधवस्य पत्न्याः मातुः च मङ्गलचिह्नानि, पत्न्याः सीमन्तस्थकुंकुमं च मार्जयित्वा विधवारूपेण कुल्भूषणस्य पुरतः अनयताम्। कुलभूषणस्य कुटुम्बस्य अपमानीकरणं पाक्किस्थानस्य लक्ष्यम्। पाक्किस्थानं विरुद्ध्य  प्रतिषेधः करोतु इति पार्ल्मेन्ट् समूहान् सा आह्वानं कृतवती।
 
      कुल्भूषणस्य पत्न्याः पादुके क्यामरा, चिप् इत्यादि उपकरणानि निवेशितः इति पाक्देशस्य आरोपणानि परिहासार्हाणि अयं पादुकं धृत्वा एव ते द्वे विमानमार्गेण यात्रां कृत्वा पाक्देशं गच्छतः। अस्य परिवारं प्रति पाक्देशस्य प्रवृत्तिः मनुष्यत्वरहितेन एव। साडिकायाः स्थाने 'साल्वार् कम्मीस्' धर्तुम् निर्बन्धिता अभवत् जाधवस्य माता। तयोः समीपे स्थितवन्तौ द्वौ पाक् अधिकारिणौ मराठीभाषायां भाषणं कर्तुं अनुज्ञा न दत्तवन्तौ, किन्तु पुनः मराठी भाषायां भाषणं कृतवती इत्यनेन इन्टेर्कोम् प्रवर्तनरहितम् अकुरुताम्। विपक्षदलनेता गुलांनबि आज़ाद् च पाक्देशस्य इदं हीनकृत्यं विमर्शितवान्। तैः देशस्य सर्वाः स्त्रियः। अपमानिताः इत्यपि सः अवदत् अन्ये सर्वे विपक्षदलनेतारः च पाक्देशस्य प्रवृत्तिं प्रति विप्रतिपत्तिं  सभायां उक्तवन्तः।

Thursday, December 28, 2017

ओखी दुरिताश्वासाय १३३कोटि रूप्यकाणाम् अनुज्ञा कृता। 
             अनन्तपुरी > ओखीचक्रवातदुष्प्रभावबाधितेभ्यः त्रयस्त्रिंशदधिकशतकोटि रूप्यकाणां साहाय्यम् अनुज्ञापयिष्यतीति केन्द्रसङ्घेन उक्तम्। ४२२ कोटिरूप्यकाणि राज्यसर्वकारेण अर्थितानि। केन्द्रगृहमन्त्रालयस्य उपसचिवस्य विपिन् मालिक् वर्यस्य नेतृत्वे आगतः सङ्घः त्रिधा विभज्य केरलस्य विविधेषु दुरन्तबाधितप्रदेशेषु सन्दर्शनमकरोत्। सन्दर्शनं पूर्तीकृत्य श्वः दिल्लीं प्रतिगमिष्यति।
सेन्ट् पीट्टेर्स् बर्गे विस्फोटः
लिषा सी.आर्
       मोस्को> रष्यायां सेन्ट् पीट्टेर्स् बर्ग् व्यापार केन्द्रे  आपन्ने विस्फोटे दश जनाः क्षतजाः अभवन्। विपुलापणकेन्द्रे अयं विस्फोटः जातः इति रष्यादेशस्य वार्तासंस्थया आवेदितः। किन्तु विस्फोटे कोऽपि  मृताः वा इति आवेदने नास्ति। विपुलापणकेन्द्रे सङ्क्रयणाय आगताः  जनाः एव विस्फोटनेन क्षतजाः। चत्वारः जनाः आतुरालये प्रविष्टाः। अयं विषयमधिकृत्य रष्यादेशस्य सुरक्षा अधिकाारिणा अन्वेषणं आरब्धम्। नववत्सरपर्वानुबन्धतया नगरेषु महान् जनसम्मर्दः आसीत्। एतान् जनान् उद्दिश्य आसीत् वा स्फोटः इति न व्यक्तः। स्फोटनानन्तरं प्रदेशात् जनाः निष्कासिताः। ’प्ररक्रे स्टोक्’ नाम विपुल्लापणकेन्द्रे एव स्फोटः जातः।
इस्रयेलः पलस्तीनः, एते द्वे राष्ट्रे भवतु - मार् पाप्पा 

'मार् पाप्पा'- वत्तिक्कान् राष्ट्रस्य सेन्ट् पीट्टेर्स् देवालये सम्पन्ने क्रिन्तु जयन्ती शिश्रूषामध्ये  येशुदेवस्य बलरूप प्रतिमां हस्ते आदाय )
             वत्तिक्कान् सिट्टी > इस्रायेल- पलस्तीनौ  उभौ राष्ट्रौ स्वतन्त्र राष्ट्रौ भूत्वा पश्चिम-एष्याखण्डस्य समस्यायाः परिहारः कर्तव्यः इति फ्रान्सिस् मार् पाप्पया उक्तम् । यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पेण  जरुसलें देशः इस्रायेलस्य राजधानित्वेन प्रख्यापितायां  अवस्थायां सङ्घर्षान् निर्मार्जयितुं शान्तिसंवादः पुनरारम्भणीयः इत्यपि मार्पाप्पवर्येण निर्दिष्टम्।
          इस्रयेलपालस्तीनयोः समस्यया जायमानकलहः अनुवर्त्यते चेत् पश्चिमेष्यायाः शिशवः एव कष्टतायां पतन्ति। अतः उभौ राष्ट्रौ अचिरादेव चर्चां कृत्वा तेनविषयपरिहाराय शुभ मार्गः भुयात् इति प्रार्थयामहे इति सन्दर्भेस्मिन्  पाप्पवर्येण उक्तम्। विश्वे सर्वत्र अशन्तिः वर्धते। युद्धभीषायाः वातः सर्वत्र वाति।  जायमानेषु  युद्धेषु शिशवः एव अधिकं कष्टम् आवहन्ति। तेषां निरालम्बानां शिशूनां मुखे मार्गालये प्रवेशं अलभमानस्य येशुदेवस्य एव मुखं दृष्टव्यम् इति तेन उद्बोधितम्।

Wednesday, December 27, 2017

अष्टनवति वयसि स्नातकोत्तर-बिरुदम्I
          पाट्ना (पाटलीपुत्रम्)> अर्थशास्त्रे अष्टनवति वयसि स्नातकोत्तर बिरुदम् सम्पादितवान्  राजकुमार वैश्यः नामकः लोकेतिहासपुस्तके स्थानं आवहति। ज्ञानार्जने वार्धक्यं न बाधा इति तेन प्रमाणीक्रियते। नालन्द ओप्पण् विश्वविद्यालयस्य भवति बिरुदम्। 
       १९४० तमे एषः नियमबिरुदं सम्पादितवान्। किन्तु कुटुम्बस्य आर्थिकक्लेशेन अध्ययनम् अनुवर्तितुम् अशक्तः आसीत्। अस्मिन्  वार्धक्येपि स्नातकोत्तरबिरुदाय पञ्जीकृतवान् इत्यनेन 'लिंका बुक् आफ्  वेल्ड् रेक्कोर्ड् मध्ये अस्य महोदयस्य नामः उल्लिखितः आसीत्।
नौकानिपातेन षट् बालकाः मृताः। 
         मलप्पुरं > केरले मलप्पुरं जनपदे चङ्ङरंकुलं प्रदेशस्थे तटाके नौका निपात्य षड्बालकाः मृताः। मृतेषु पञ्च परिवारैकभूताः भवन्ति। नरणिप्पुष़प्रदेशस्थे माप्पालिक्कल् भवने वेलायुधः [५५]  तस्य तथा सहोदरयोः च अपत्यैः साकं तटाकपरिदर्शनार्थं स्वस्यैव लघुनौकायां प्रस्थितः आसीत्। प्रातिवेशिकौ द्वौ बालकौ चास्ताम्। यात्रामारभ्य १५ मीटर् यावत् दूरे अतीते बालकाः नौकायाः  एकमेव पार्श्वमुपवेशिताः इति दुर्घटनाकारणमिति सूच्यते। नौका तु षण्णाम् उपवेशनपरिमिता आसीत्। तत्स्थाने नव जनाः आसन्निति च दुर्घटनाकारणं मन्यते। 
       धीवरः वेलायुधः तटाके नौकाचालने च परिचयसम्पन्नः इत्यतः बान्धवानां निरुत्साहवचनानि अनादृत्य स्वगृहमभ्यागतानां बालकानाम् अभिलाषपूर्तीकरणाय उद्युक्तः अासीत्। परन्तु दशकानां संवत्सराणाम् परिचयसम्पत्तिः तस्य धैर्यश्च निष्फलतां प्राप।

Tuesday, December 26, 2017

भारते प्रतिरोध-विश्वविद्यालयः स्थापयिष्यते।
           नवदिल्ली> प्रतिरोध मण्डेलेषु अधुनिकशिक्षा - नूतना साङ्केतिकता च लक्षीकृत्य भारतम् विश्वविद्यालयस्य स्थापनाय सन्नद्धम् अभवत्।  प्रतिरोधानुसन्धानं तथा नयतन्त्राध्ययनेन सह विविधाः विषयाः च अध्ययन विभागे अन्तर्भावयति। भारतीय राष्ट्रिय प्रतिरोध विश्वविद्यालयः इति विद्यालयस्य नाम निश्चितम्। गुड्गावस्थ बिमोल नाम देशे भविष्यति विश्वविद्यालयस्य केन्द्रः।  भारतस्य प्रप्रथमप्रतिरोधविद्यालयः भवति एषः। आगामि मन्त्रिसभा मेलने विश्वविद्यालयस्य प्रवर्तनाय अनुज्ञा लभतेI
हिमाचले जयराम् ठाक्कुरः मुख्यमन्त्री; शपथसमारोहः श्वः। 
        षिम्ला > हिमाचलप्रदेशे मुख्यमन्त्रिरूपेण भा ज पा सदस्यः जयराम ठाक्कुरः निर्णीतः। सप्ताहं यावत् अनुवर्तमानायाः परिचर्चायाः अन्ते एव जयरामस्य मुख्यमन्त्रिपदं प्रख्यापितम्। मुख्यमन्त्रिपदमलङ्कृतवान् प्रेम्कुमार् धूमालः अस्मिन् निर्वाचने पराजितः आसीत्। नियुक्तमुख्यमन्त्रिणः शपथसमारोहः श्वः षिम्लायां 'रिड्ज्' क्रीडाङ्कणे भविष्यति।
गुर्जरेषु विजय रूपाणि अद्य शपथं स्वीकरिष्यति।
         अहम्मदाबाद् > अद्य गुजरात्त् राज्यस्य  मुख्यमन्त्रिपदे शपथं कृत्वा आरुह्यते विजयरूपाणिना। उपमुख्यमन्त्री पदे नितिन् पट्टेलः च भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी, भा ज  दलस्य राष्ट्रियाध्यक्षः अमित् षा, भा ज  दलेन शासितराज्यस्य मुख्यमन्त्रिणः, केन्द्रमन्त्रिणश्च गान्धिनगरस्थ सचिवालय चत्वरे आयोक्ष्यमाणे मेलने भागभाजः भविष्यन्ति।
            राज्यपालः ओं प्रकाश् कोह्लीवर्यः शपथवाक्यं प्रवक्ष्यति। नूतनाङ्गानाम् मन्त्रिसभायाम् अधिकं प्राधिनिध्यं भविष्यति। जैनधर्मानुयायी भवति विजयरूपाणि।
रष्याराष्ट्रपतिनिर्वाचनम् पुटिनस्य प्रतियोगिनम् अयोग्यः अकरोत्।
         मोस्को> आगामि संवत्सरे प्रचरिष्ययमाणे राष्ट्रपति निर्वाचने स्पर्धितुकामो व्लाडिमिर्  पुटिनस्य प्रतियोगी अलक्स् सि नवोणिः अयोग्यः जातः।  रष्याराष्ट्रस्य निर्वाचनाध्यक्षेण अयोग्यत्वं ज्ञापितम् च। अलक्सि इत्याख्यस्य उपरि विद्यमानान् अपराधित्वााभियोगान् परिगणय्य एव आसीत् निर्वाचनायोगाध्यक्षस्य क्रियाविधयःI त्रिंशत् आयोगाङ्गेषु द्वादशानां मतः अलक्सिं विरुध्य आसीत्I एक चत्वारिंशत् वयस्कः अलक्सि नवोणिः सर्वजनिक-योगाः पदसञ्चलनादयाश्च नियमन्विरुद्धतया  आयोजिताः इत्यनेन कारागाारे ग्रहीतः।  अत एव निर्वाचने व्लाडिमिर् पुटिनः विजयी भविष्यति।
सरहस्यं जाधवस्य जीवनवृत्तम्। पाक् दृष्ट्या  गुप्तचर:  भारतीयदृष्ट्या वणिक्।
-पुरुषोत्तमशर्मा

        नवदिल्ली >महाराष्ट्रस्य साङ्गल्यां गतशताब्दीये सप्ततितमे वर्षे  अप्रैलमासस्य षोडशे दिनाङ्के लब्धजन्म: भारतीयनौसेनाया: प्राक्तन कमाण्डर् इति पदभाजनीभूत:   कुलभूषणजाधव: पाकिस्तानेन षोडशोत्तरद्विसहस्रतमे वर्षे मार्चमासस्य तृतीये दिनाङ्के बलूचिस्तानात् निगडितः आसीत्। पाकिस्तानेनाक्षिप्तं यदसौ भारतीयगुप्तचरः वर्तते, यो हि  (रिसर्च एंड एनालिसीस् विंग ) (रॉ) विभागाय कार्यं करोति स्म । 
        निगडनस्य 20 दिनानन्तरं  पाकिस्थानेन जाधवस्य स्वीकृते: तथाकथितं  वीडियो इति दृश्याङ्कनमपि प्रसारितमासीत् , तत: परं सार्धत्रिमासानन्तरं  अप्रैलमासस्य दशमे दिने  फील्ड्  जनरल् कोर्ट् मार्शल् इति न्यायालयेन तस्मै मृत्युदण्ड: श्रावितः।
ओडीषाराज्ये नालिकाकूपे पतिता बालिका रक्षिता।
          भुवनेश्वरम् > ओडीषादेशे नालिकाकूपे पतिता बालिका सप्तघण्टायाः प्रयत्नस्य अन्ते रक्षिता अभवत्। अङ्कुळ् जनपदस्य गुलासर् ग्रामे एव घटनेयं जाता। राधा साहु नामिका बालिका प्रभाते नववादने क्रीडा वेलायामेव नालिकाकूपे पतिता। अग्निशमनसेनान्यः अधिक-परिश्रमेण तां अरक्षन् । पञ्चदश-पाद-परिमितः आसीत् अयं नालिकाकूपः। तस्मिन् षट्पाद परिमिते गर्ते स्थगिता सा इत्येनेन सजीवं बहिरानेतुं प्रभवति इति अग्निशमन सैनिकाः अवदन्। कूपस्य समीपे अन्यत् गर्तं निर्माय तेनमार्गेण एव बालिकाम् अरक्षत् ।  कूपस्य पिधानं नासीत् इति एव घटनायाः कारणम् ।

Monday, December 25, 2017

दल्ली मेट्रोरेल् संस्थायाः 'मजन्त लैन्' मार्गः प्रधानमन्त्रिणा उद्घाटितः।
            नवदिली > दक्षिणदिलीदेशस्य कल्काजि तथा नोयिडा देशस्य बोट्टाणिक्कल् गार्डन् च मिथ संबन्ध्य भवति दिल्ली मेट्रोयान-संस्थायाः नूतनमार्गः। मजन्त लैन् इति नामाङ्कितः अयं मार्गः प्रधानमन्त्रिणा नरेन्द्र मोदिना उद्घाटितः। नोयिडातः ओख्ल पक्षिसङ्केतपर्यन्तं धाव्यमानं नूतनं मेट्रो रेल् यानं ध्वजवीजनेन उद्घाटितः च । अनन्तरं  प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथेन सह नोयिडातः पक्षिसङ्केतपर्यन्तं यात्रां कृतवान् ।
उपनिर्वाचने सफलतां प्राप्य भा ज पा, अरुणाचले बंगाले च कॉग्रस् दलस्य पराजयः
       नवदिल्ली>  कॉग्रस् दलात् द्वाै स्थानौ संगृह्य एकं प्रतिपाल्य च भा ज पा दलीयाः पुरोगच्छन्ति। इदानीम् अरुणाचलस्य ६० अङ्ग सभायां कॉग्रस्  एकाङ्गत्वेन परिणितम्। भा ज पा दलं एकोन पञ्चाशत् ( ४९) अङ्गैः परिपुष्टाः च।
          उत्तरप्रदेशस्य 'सिक्कन्द्र' मण्डलं भा ज पा दलेन परिपालितम्। भा ज पा दलस्य अजित् सिंहपालः 11,861 संख्यामितं सम्मतिं  अधिकं संप्राप्य विजयीभूतः। बंगाले सबाङ् मण्डले कॉग्रस् दलस्य पराजयः अभवत् 1957 आरभ्य काङ्ग्रस्‌दलस्य शक्तिकेन्द्रः आसीत् इदं मण्डलम् ।
समारब्धः कार्यानुभव-प्रशिक्षण-वर्गः
         त्रिश्शिवपेरुर्> केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे समारब्धःI डिसम्बर २५तः जनुवरि २ पर्यन्तं प्रचाल्यमानस्य वर्गस्यास्य उदघाटनं गुरुवायूर् परिसरस्य भूतपूर्व प्राचार्यः एम् ए बाबुवर्य: कृतवान्। दशदिनात्मकप्रशिक्षणे भारतस्य विभिन्नभागेभ्यः समागताः ४० अध्यापकाः भागं वहन्ति। प्रशिक्षणे संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगः अपि अस्ति।

Sunday, December 24, 2017

राजस्थाने लोकयानं नदीं पतित्वा ३३यात्रिकाः मृताः। 
        जय्पुर् > राजस्थानराज्ये  शतपादपरिमितात् सेतोः लोकयानं नदीं पतित्वा त्रयस्त्रिंशत् यात्रिकाः यमपुरिं प्राप्ताः। मथोपुरजनपदे सवायि डुबिग्रामे एवेयं दुर्घटना। नष्टनियन्त्रणं लोकयानं सेतोः आवेष्टकस्तम्भान् प्रभञ्ज्य 'बनास्' नदीं पतितमासीत्। 
         मृतेषु सप्त महिलाः चत्वारः बालकाश्च अन्तर्भवन्ति। यात्रिकेषु भूरिशः उत्तरप्रदेशतः मध्यप्रदेशतश्च सवायि मथोपुरस्थं रामदेवमन्दिरं  प्रस्थिताः तीर्थाटकाः आसन्निति आरक्षकाधिकारिणा अनूपसिंहेन उक्तम्। लोकयानस्य अमितशीघ्रता हिमाच्छादनं च दुर्घटनाहेतुरिति मन्यते।
तमिळ्नाट् राज्ये मतदानगणना आरब्धा। 
                 चेन्नै> आर् के नगरस्य निर्वाचनफलं अचिरादेव प्रख्याप्यते ।
राजनैतिकदलानि इदानिं हृदयपटह ध्वनिना सह वर्तन्ते। शासन पक्षदलम् इत्यनेन ओ पि एस्, पळनिस्वामि पक्षस्य फलं निर्णायकमेव। स्पर्धितारः सर्वे समुचितरीत्या प्रयत्नं कुर्विताः सन्ति। तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः निधनेन पुनर्निर्वचनं अभवत्I

गोखाद्यकुम्भकोणम् - लालुप्रसादयादवः अपराधी। 
                  राञ्ची > २२ संवत्सरेभ्यः पूर्वं लालुप्रसादयादवस्य शासनकाले बीहारराज्ये संवृत्ते गोखाद्य-महाभ्रष्टाचारानुबन्धे अपरे विषये पि  तदानींतनमुख्यमन्त्री लालुप्रसादयादवः अपराधीति सि बि ऐ सविशेषन्यायालयेन निर्णीतम्। दण्डनविधिः जनवरी तृतीयदिने घोषयिष्यते। 
                १९९१-९४ परिमिते काले गवां कृते खाद्यानि, औषधानि , उपकरणानि इत्यादीनि क्रीतानीति व्याजदेयकानि समुद्पाद्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि आहृतानि इत्यस्ति अपराधारः विषयः। लालुं विना १५ अधिकारिप्रमुखाः अपि अपराधिन इति न्यायालयेन निश्चितमस्ति।
पाकिस्थानदेशः शान्तिं वाच्छति-?
पाकिस्थानस्य आक्रमणेन त्रयः सैनिकाः वीरमृत्युं प्राप्ताः।
       श्रीनगरम्> भारतेन सह चर्चा आवश्यकी न युद्धः इति उक्तवान् पाकिस्थानस्य  स्थल-सेनाध्यक्षः। तदनन्तरं कतिपय दिनाभ्यन्तरे सीमायां गोलिकाप्रहरमपि कृतवान् । गोलिकाप्रहारे त्रयः भारतसैनिकाः मृत्युवशंगताः। जम्मुकाश्मीरस्य केरियिल् १२० इन्फिन्ट्रि ब्रिगेट् स्थानं प्रति आसीत् आक्रमणम् । वाचं विरुध्य भवति प्रवृत्तिः इति पुनरपि पाकिस्थानेन प्रमाणीकृतम् इति  भारत स्थलसेनाध्यक्षेण विपिन् रावत्तेण उक्तम्। सैनिकैः सह अर्धसैनिक विभागाः आरक्षकाः च मिलित्वा अधिकप्रयत्नेन एव भीकरदलाः निवारिताः। पाकिस्थानेन  इदानीं कृताक्रमणम् अप्रतीक्षितम् आसीत्। अस्मिन् संवत्सरे सीमायां ८८१ वारं पाक् सैनिकैः गोलिकाप्रहारस्थगन व्यवस्था उल्लंघिता वर्तते। त्रिंशत् (३०)ग्रामिणजनाः गोलिकाप्रहारेण हताः च।

Saturday, December 23, 2017

सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासः 
              नवदिल्ली >सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासाय नियमनिर्मणां प्रचलति।  दोषाय दीयमानः दण्डः अपर्याप्तः सः दण्डः कठिनः भवितव्यः इति सर्वोच्च न्यायालयस्य निर्देशानुसारमेव नूतनः नियमनिर्माणः। एतत् विहाय पञ्जीकरणसमये तृतीय विभागानां कृते अपि                           अभिरक्षा स्वीकरणीया इति निर्बन्धः भविष्यति।   
इदानीं मदिरां पीत्वा दुर्घटनाकारकेभ्यः वर्षद्वयस्य कारावासः धनदण्डः च भवति। अस्मिन् विषये दशवर्षस्य कारावासेन दण्डनीयाः इति पूर्वं विषये अध्ययनं कृत्व नियुक्तसमितिना निर्दिष्टा आसीत्
व्यवस्थाकार्कश्यानि - केरले १६१ बालभवनानि पिहितानि; उपसहस्रं पिहितप्रायानि। 
            कोष़िक्कोट् > बालनीत्यनुशासनस्य व्यवस्थाः अनुसृत्य बालभवनानि डिसंबर् ३१तमदिनाभ्यन्तरे पञ्जीकरणीयानीति सर्वोच्चन्यायालयस्य आदेशः शतशः बालमन्दिराणां कृते प्रत्याघाताय भवति। निर्देशान् परिपालयितुमशक्तानि पालक्काट् इटुक्की जनपदस्थानि भूसम्पत्तिमण्डलस्थानि १६१ बालमन्दिराणि पिहितानि। उपसहस्रं बालभवनानि अनाथमन्दिराणि च पिधातुं निर्णीतानि। पञ्चाशत् सहस्रं बालकाः अरक्षिताः भविष्यन्तीति अस्य अनन्तरफलम्। 
          केरले प्रायेण १२०० बालभवनानि अनाथमन्दिराणि वा 'ओर्फनेज् कण्ट्रोल् बोर्ड्' इत्यस्याः संस्थायाः अधीने प्रवर्तन्ते। स्वभवनेषु अरक्षितावस्थाम् अभिमुखीकुर्वन्तः बालकाः एव अध्ययनार्थम् एतादृशसंस्थाः आश्रयन्ति। तेषां  सर्वोच्चन्यायालयस्य नूतनादेशाः प्रतिसन्धिं जनयन्ति।