OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 15, 2018

इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनाय प्राप्तः। 
      नवदिल्ली > षड्दिवसीय भारतसन्दर्शनाय इस्रायेलराष्ट्रस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू वर्यः भारतं प्राप्तवान्। भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षादागत्य नवदिल्ली विमानपत्तनं सम्प्राप्तं नेतन्याहुवर्यं स्वीकृतवान्। २००३ तमे वर्षे एरियल् षारोण् वर्यस्य आगमनानन्तरं इदानीमेव इस्रयेल् प्रधानमन्त्रिणः भारतसन्दर्शनं सम्पद्यते। 
     कृषिः, साङ्केतिकविद्या, शास्त्रं, बहिराकाशः, जलं, संरंभकत्वम् इत्यादिविषयेषु परस्परसहयोगमधिकृत्य चर्चा भविष्यतीति विदेशकार्यमन्त्रालयवक्ता अब्रवीत्। १३० अङ्गसंघैः सह एव नेतन्याहुवर्यस्य भारतपर्यटनम्। गुजरात् मुम्बई प्रदेशेषु अपि तस्य सन्दर्शनं भविष्यति।

Sunday, January 14, 2018

विद्यालयस्तरादारभ्य योगः अध्येतव्य इति केन्द्रविभावनम् – मन्त्री श्रीपादः। 
               कोच्ची > विद्यालयस्तरादारभ्य योगशास्त्रं पाठ्यविषयत्वेन स्वीकरणीयमिति केन्द्रसर्वकारस्य नयः इति केन्द्र आयुष्मन्त्रिणा श्रीपाद यशोनायिक् वर्येणोक्तम्। कोच्चीमध्ये 'पतञ्जलि योग ट्रयिनिंग् आन्ड् रिसर्च् सेन्टर्' संस्थायाः "नमामि योगम् २०१८" नामकं साधकसङ्गमं योगपैतृकपुरस्कारसमर्पणं च उद्घाटनं कुर्वन् भाषमाण आसीत् केन्द्रमन्त्री। 
               योगशास्त्रस्य अधिकप्रचाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नः केन्द्रमन्त्रिणा संस्तुतः। सज्जीवनस्य मार्गः एव योगपरिशीलनेन सिद्ध्यति। मारकरोगान् प्रतिरोद्धुं च योगानुशीलनेन साध्यते इति तेनोक्तम्।
तैल-प्रकृतिवातकनिगमस्य उदग्रयानं समुद्रे पतित्वा ५ मृताः , द्वावदृष्टौ। 
        मुम्बई > तैल-प्रकृतिवातकनिगमस्य [ओ एन् जि सि] अधीशत्वे वर्तमानम् उदग्रयानं विशीर्य समुद्रे पतितम्। निगमस्य पञ्च वरिष्ठाधिकारिणः तथा द्वौ वैमानिकौ उदग्रयानमुपस्थिताः आसन्। तेषु पञ्चानां मृतदेहाः लब्धाः। केषां मृतशरीराणीति स्थिरीकरणं न लब्धम्। 
       मुम्बय्यां जूहू तटात् 'मुम्बई है'स्थं तैलखनन-पर्यवेषणकेन्द्रं प्रति प्रस्थितं पवनहंसनामकम् उदग्रयानं शनिवासरे प्रभाते सार्धत्रिवादने एव प्रभञ्ज्य समुद्रे अपतत्। दुर्घटनाविधेयेषु त्रयः केरलीयाः सन्ति। ते ओ एन् जि सी संस्थायाः उत्पादनविभागे उपमहाप्रबन्धकाः आसन्।

Saturday, January 13, 2018

 युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः , - डाँ. के.साम्बशिवमूर्तिः
वार्ताहरः - दीपक शास्त्री

       जीवने सर्वदा स्वामीविवेकानन्दस्य इव आचरणं कर्तव्यपालनम् च करणीयम्। गुरुं प्रति निष्ठावन्तःभवेयु:। नवभारतस्य निर्माणे संस्कृतशिक्षकाणां संस्कृतछात्राणां च मुख्यं दायित्वं वर्तते। युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः इति डॉ साम्बशिव मूर्तिना  उक्तम् । जगद्गुरु रामानन्दाचार्य राजस्थानसंस्कृत विश्वविद्यालये जनवरी मासस्य द्वादश  दिनांके स्वामीविवेकानंदस्य एकशताधिक पंचपंचाशत् जयन्त्या: उपलक्ष्ये कार्यक्रमस्य आयोजने अध्यक्षभाषणं कुर्वन्  आसीत्  सः।  विशिष्टातिथि: व्याकरण विभागाध्यक्ष: डॉ प्रमोदशर्मणा उक्तं यत् चरित्रनिर्माणम् एव जीवनस्य निर्माणं वर्तते जीवने चरित्रस्य मूल्यं महत्वपूर्णमस्ति उत्तमेन चरित्रेण वयं जीवने सर्वस्वं प्राप्तुं शक्नुम: अस्मिन् अवसरे सारस्वतातिथि: अशोकतिवारी महोदयेन  उक्तं यत् यदा अस्माकम् इच्छा विवेकानंदस्य सदृशी भविष्यति  तदा अस्मान् रामकृष्णपरमहंस: सदृश: गुरो: प्राप्तिर्भविष्यति । भारतीयाः स्वकीयाध्यात्मबलेन विश्वं जेतुं प्रभवन्ति । मानवदेहस्य  मुख्य-तत्वानि ज्ञातृत्व मन्तृत्व कर्तृत्वानि सन्ति। अनन्तरं मुख्यवक्ता डॉ विनोदशर्मणा उक्तं यत् हिंदूधर्म: अतीव समुन्नत:। हैन्दवाणां सभ्यता अतीव समृद्धास्ति सर्वेषां जनानां दायित्वं अस्ति यत् स्वामीविवेकानन्दः येन प्रकारेण अस्माकं संस्कृति वैश्विकस्तरे प्रतिष्ठापिता ।   भारत: विश्वगुरु: स्यात् अतः वयं कटिबद्धाः भवेम:। अनन्तरं कार्यक्रमे विभागीय  छात्रः मोहित: पूनम् शाक्य घनश्यामः शिवानी शर्मा  भूपेश चौबीसा जुगलव्यास: चंद्रहंसः अमित कुमार झा दीनदयाल: मोहनः लोकेशःदेवन्द्रः निखिलादयः स्वकीय विचारान् अप्रकटयन्। सर्वेषाम् विभागाणां शिक्षकवृंदा: छात्रा:कार्यक्रमे समुपस्थिता: आसन्। मंच संचालनम् विभागीयछात्रौ आशीषगजेन्द्रौ कृतवन्तौ।
राष्ट्रस्य परमोन्नततीतिपीठे विश्वासप्रतिसन्धिः। 
नवदिल्ली > राष्ट्रस्य परमोन्नतनीतिपीठस्य विश्वास्यतां कण्टकाग्रे संस्थाप्य सर्वोच्चन्यायालयस्य शासनसंविधानं मुख्यन्यायाधिपं च विरुध्य तत्रस्थाः चत्वारः वरिष्ठन्यायमूर्तिनः रङ्गप्रवेशं कृतवन्तः। न्यायाधिपाः जे. चेलमेश्वरः, रञ्जन् गोगोय्, मदन् बि लोकुर्, कुर्यन् जोसफः इत्येते गतदिनस्य न्यायालयकार्यक्रमान् स्थगयित्वा वार्ताहरसम्मेलनं कृतवन्तः। यदि नीतिन्यायसंविधानं न संरक्षिष्यति तर्हि जनाधिपत्यस्य दुर्घटना भविष्यतीति तैः तीव्रभाषया उक्तम्।

Friday, January 12, 2018

भारतस्य १०० तमः उपग्रहः बाह्याकाशं प्राप्तः भारतानां अभिमाननिमेषः।
           श्रीहरिक्कोट्ट> भारतस्य शततम उपग्रहः भ्रमणपथं प्राप्यात्‌ ऐ एस् आर् ओ संस्थया। अद्य प्रातः ९: ४५ वादने आसीत् विक्षेपणम्। कार्टो साट् २ श्रेणीस्थः उपग्रहेन सह त्रिशत् उपग्रहाः आसन्।  भारतस्य द्वाै उपहौ आस्तां अस्मिन् विक्षेपणे। अन्ये उपग्रहाः अन्येषां राष्ट्राणामेव। पि एस् एल् वि सि ५० इतिआकाश बाणः भवति  उपग्रहाणां वाहकः। विक्षिप्ते उपग्रहयो: भारतभूविभागस्य सुव्यक्त चित्र-ग्रहणाय विशेषचित्रग्राही अपि स्तः इति विशेषता।  एतयोः भारः 710 किलोग्रॉ मितः । भूमीतः505 किलोमीट्टर् दूरे भवति एतयोः भ्रमणपथः । 
वयः चत्वारः पुस्तकशतं पठति प्रतिदिनम्।
-विशेष वार्ताः
काव्यशास्त्रविनोदेन 
कालोगच्छति धीमताम्।
व्यसनेन च मूर्खाणां
निद्रया कलहेन वा ॥
                 इति श्लोकः प्रसिद्धः खलु ?    पुस्तकवाचने उत्सुकाः लोके बहवः सन्ति। किन्तु प्रतिदिनं शतम् पुस्तकानि वाचयितुं शाक्यते वा ? शक्यते इत्यस्य निदर्शनभूतः चतुर्वयस्कः बालकः अस्ति। चिक्कागो नगरस्थः कलेब् ग्रीन् इति नामकः बालकः।
               एकस्मिन् दिने तेन उक्तम्  तस्मै वाचनाय शतं पुस्तकानि आवश्यकानि इति। तस्य पित्रा सैलसेन सा क्रीड़ा-वाक्यमिति चिन्तितम्। पुत्रस्य दृढनिश्चयेन प्रभावितः पिता तस्मै साहाय्यमकरोत्। सार्धद्विहोराभ्यः पुस्तकशतं वाचयितुं तस्य प्रयत्नः सफलतामवाप। तथा कलेब् ग्रीनस्य वाचनं तस्य पिता सैलसः एव मुखपुस्तिकायं तस्मिन्नेव काले प्रसारयत् ।
                मम नाम कलेब् ग्रीन् अहं शतं पुस्तकानि इदानीं पठामि इति उक्त्वा एव चलनमुद्रिका प्रारभते। त्रयघण्डा-परिमितं चलन मुद्रिका सम्प्रेषणं दृष्वा बहवः जनाः रोचते इति मुद्रया मुखपुस्तिकायाम् मुद्राङ्कनम् अकरोत् ।

Thursday, January 11, 2018

कनककिरीटं कोष़िक्कोट् जनपदाय।
         तृश्शिवपेरूर् > केरलराज्यस्तरीयविद्यालयकलोत्सवः समाप्तः। अघिकतमाङ्कप्राप्तस्य जनपदस्य कृते दीयमानं सुवर्णकिरीटं कोष़िक्कोट् जनपदेन प्राप्तम्। तैः ८९५ अङ्काः प्राप्ताः। ८९३ अङ्कैः पालक्काट् जनपदेन द्वितीयस्थानमवाप्तम्। तृतीयचतुर्थस्थाने यथाक्रमं मलप्पुरं तृश्शूर् जनपदाभ्यां प्राप्ते।  आगामिवर्षस्य कलोत्सवः आलप्पुष़ा जिल्लायां प्रचलिष्यति।
       राज्यविपक्षनेता रमेश् चेन्नित्तला समाप्तिसम्मेलनस्य उद्घाटनंनिरवहत्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः कृषिमन्त्री वि एस् सुनिल्कुमारः डि पि ऐ मोहन्कुमारः इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
भारतस्य ८.३ प्रतिशतं वर्द्धितमिति विश्व आर्थिकालयः। एवं भारतं चैनां पारं गच्छति।
               वाषिड्डण्< सर्वकारस्य आर्जवं प्रशंस्य विश्वार्थिकालयेन भारतस्य विकासः भविष्यतीति उक्तम्। नरेद्रमोदिनः तथा भा जा पा सर्वकारं ऊर्जदायकमस्ति विश्वार्थिकालयस्य इयमुक्तिः।  आर्थिकपरिष्करणैः २०१८ तमे वर्षे भारतं ७.३ प्रतिशतं वर्षद्वयानन्तरं ७.५ प्रतिशतं च वृद्धिः प्राप्स्यति इति विश्वार्थिकालयः प्रतीक्ष्यते। २०१७ संवत्सरे ६.७ प्रतिशतं आसीत् वृद्धिः। किन्तु भारतं एतत् सर्वं अतिक्रामति इति आगोलार्थिकदर्शन प्रतिवेदने विश्वार्थिकालयः वदति।
           भारतस्य वृद्धिः बृहती  भवति। चैनायाः वृद्धिः मन्दरूपेण भवति। विश्वार्थिकालयस्य निदेशकः अय्खान् कोस् अवदत्। २०१७ तमे चैनायाः वृद्धिः ६.८ प्रतिशतमासीत्। २०१८ तमे वर्षे ६.४ प्रतिशतं च भविष्यति गणयति। आगामिनि वर्षेषु यथाक्रमं ६.३, ६.२ प्रतिशतं च भविष्यति। विश्वस्य पञ्चमं आर्थिकशक्तिरूपेण भारतं परिणमति इति सेण्टर फोर् इक्कणोमिक्स् आण्ड् बिसिनस् रिसर्च् कण्सल्टन्सी संस्थायाः प्रतिवेदने वदति। ब्रिट्टन् फ्रान्स् इत्यादि राष्ट्रौ अतिक्रम्य भारतं एनं स्थानं प्राप्स्यति। पञ्चदशवर्षाभ्यन्तरे विश्वस्य दश आर्थिकशक्तिषु ऐषियन् राष्ट्राणि पुरोगमिष्यन्तीति संस्तुत्यां वदति।

करीबिय समुद्रेषु भूकम्पः। ७.६ तीव्रता। होण्डुरास देशे सुनामि (समुद्रक्षोभः) पूर्व सूचना दत्ता ।
            टेगुसिगल्प> करीबिय समुद्रेषु ७.६ तीव्रतायां भूकम्पः सञ्जातः इत्यनेन मध्य अमेरिका भूखण्डस्थ करीबियराष्ट्रे सुनामि पूर्वसूचना प्रदत्ता अस्ति। यु एस् जियोलजिक्कल् सर्वे नाम संस्थया एव  भूकम्पः आवेदितः। मनुष्याणां मृत्युः नाभवत् इति प्राथमिक विवरणम् ।
             आलयानां भित्तिभ्रंशानां चित्राणि सामूहिकमाध्यमेषु प्रचलितानि वर्तन्ते। उत्तर अमेरिकायाः करीबिय प्रतलस्य मध्यभागे  आपन्नः भ्रंशनमेव भूकम्पस्य कारणं इति वदन्ति।

Wednesday, January 10, 2018

अन्येषां वस्तुसम्पत् भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली > अन्येषां सम्पद् भारतं न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानां राष्ट्रान्तर-लोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः। भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृष्ट्युन्मुखभावः एव भारतेन प्रदर्श्यते।।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥
अन्येषां निधिः भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली >  अन्येषां सम्पद् भारतः न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानांराष्ट्रान्तरलोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः । भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृजनात्मकभावः एव भारतेन प्रदर्श्यते।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥
आशंसाप्रकाशनाय संस्कृते 'मोबैल् आप्' प्रकाशितम्। 
         तृश्शिवपेरूर् > "सम्प्रति वार्ताः श्रूयन्ताम् ....." संस्कृताभिमानिनः मनसि अद्यापि नर्तमानं भारतस्य आकाशवाणीद्वारा अवतार्यमाणायाः संस्कृतवार्तायाः प्रवेशकवाक्यं भवत्येतत्। तथा इतःपरं "शतं जीव शरतो वर्धमानः" इति जन्मदिनाशंसां, "शुभमस्तु पन्थाः" इत्यादिकं यात्रामङ्गलं, ... सर्वाः आशंसाः संस्कृतभाषायां प्रकाशयितुम् अनुरूपः SansGreet नामकः जङ्गमदूरवाणीसङ्केतः [Mobile App]  प्रकाशितः। गतदिने विद्यालयकलोत्सवनगर्यां संस्कृतोत्सवस्य प्राङ्कणे राज्यस्य मन्त्रिणा वि एस् सुनिल् कुमारेण सङ्केकस्य प्रकाशनं कृतम्।

          केरलस्य केषाञ्चन संस्कृताध्यापकानां नेतृत्वे संस्कृतभाषां नूतनसाङ्केतिकाभिलाषान् प्रति संयोजयितुमुद्दिश्य प्रवर्तमानः 'नः लैव् सान्स्कृट्' नामकसंघ एवास्याः प्रणाल्याः प्रणेता। डो.एस्.एन् महेष्बाबु,डो .जे अभिलाष्, नन्दकिषोर्.आर्, विनायक्.सी.बी, दिलीप्  एम्.डी, राजेष् पी.पी,ई, सिजोय् .ई.ए लिबि पुरनाट्टुकरा, सन्दीप् के. एस् इत्यादीनां अध्यापकानां नेतृत्वे एव एषः तन्त्रांशः सज्जीकृतः।

Tuesday, January 9, 2018

राज्यसभायासदस्यानां निर्वाचनम्
पुरुषोत्तमशर्मा
                नवदिल्ली>राज्यसभानिर्वाचनाय (आम-आदमी-पार्टीति) आपदलस्य प्रत्याशित्रयं निर्विरोधिन: प्रचिता:। सञ्जयसिंह: सुशीलगुप्‍त: एन.डी.गुप्‍तश्च निर्विरोधिन: निर्वाचिता: समुद्घोषिता:। दिल्लीत: राज्यसभाया: आसनत्रयाणां कृते प्रत्याशित्रयेण नामाङ्कनं प्रपूरितमासीत्। निर्वाचनयोगेन आपदलेन प्रस्तावितानां नामानि विजेतृरूपेणोघोषितितानि।
सैन्यप्रमुखेण सैन्यबलानामाधुनिकीकरणं सबलं प्रतिपादितम् 
 पुरुषोत्तम शर्मा
          नव दिल्ली> सेनाध्‍यक्षेण जनरलबिपिनरावतेनोक्तं यत् अरुणाञ्चलप्रदेशे अवैधप्रवेशं विधाय चीनस्य श्रमिकाणां रेलपथनिर्माणसम्बद्धा घटना समीसाधिता। जनरल रावतेन नवदिल्‍ल्याम् एकस्मिन् कार्यक्रमे वार्ताहरै: सह संवादसमये प्रोक्तं यत् घटनाया: समाधानमभवत्।

        सिक्किमे अपि भारत-चीनसीम्नि स्थितिविषय् सेनाध्‍यक्षेण निगदितं यत् चीनक्षेत्रे सुरक्षाबलानां संख्‍यायां न्यूनता सञ्जाता । इत: पूर्वं  नवदिल्‍ल्यां सेना सम्बन्धिते प्रौद्योगिकी सम्‍मेलने जनरलरावत: सैन्यबलानाम्   आधुनिकीकरणं सबलं प्रतिपादितवान् ।
गान्धिवधः - पुनरन्वेषणं नावश्यकमिति 'अमिक्कस् क्यूरी'। 
               नवदिल्ली > नाथुराम् गोड्से इत्यस्मादृते न कोऽप्यन्यः महात्मागान्धिनं प्रति भुशुण्डिप्रयोगं कृतवान् इत्यस्य प्रमाणं न विद्यते, अतः अस्मिन् प्रकरणे पुनरन्वेषणं नावश्यकमिति सर्वोच्चन्यायालयेन नियुक्तः 'अमिक्कस् क्यूरी' अमरेन्द्रशरणः न्यवेदयत्।  जनुवरि १२ दिनाङ्के अस्मिन् विषये सर्वोच्चन्यायालयस्य निर्णयः भवेत्। 
               महात्मागान्धिनः हत्यामधिकृत्य पुनरन्वेषणं निवेदयन् मुम्बईस्थायाः अभिनव भारत ट्रस्ट् इत्यस्यायाः समित्याः धरन्धरः गवेषकश्च डो. पङ्कज् फड्निस् नामकेन याचिका दत्ता आसीत्। सप्ततिसंवत्सरेभ्यः पूर्वं जातं कृत्यमधिकृत्य पुनरन्वेषणयाचिकाकारस्य उद्देश्यशुद्धिं विमर्श्य गान्धिनः पौत्रः तुषारगान्धी न्यायालयं प्राप्तवानासीत्। अस्मिन् विषये सर्वोच्चन्यायालयस्य साहाय्यार्थमेव अमिक्कस् क्यूरी नियुक्तः।
 पश्चिमवंगे व्याप्यते संस्कृतम् 
               पश्चिमवङ्गानाम् उत्तरचब्बिशपरगनामण्डलस्य बारासतजनपदे महता समारोहेण २०१८वर्षीयं संस्कृतसम्मेलनं समायोजितम्। पौषकृष्णषष्ठीतिथौ जनवरीमासस्य सप्तमे दिने अपराह्णे त्रिवादनतः आयोजितस्य सम्मेलनस्य शुभारम्भः उपस्थितै अतिथिभिः दीपप्रज्वालनेन कृतः। दीपस्तुतिः अभिजित्-भट्टाचार्येण कृता। ततः सौगतमुखोपाध्यायेन सामगानेन कार्यक्रमस्य मङ्गलाचरणं विहितम्। आबीरलालगङ्गोपाध्यायेन कृतेन शिवपञ्चाक्षरस्तोत्रेण समवेताः सामाजिकाः मन्त्रमुग्धाः एव आसन्। सम्मेलनस्य प्रयोजनं प्रतिपादितवान् विप्लवचक्रवर्तिमहोदयः। संस्कृतस्य प्रसाराय प्रोत्साहनं कृतवान् विपद्भञ्जनपालमहोदयः संस्कृतसाहित्यस्य समृद्धये समाजाय वार्ता प्रेषितवान्। संस्कृतप्रसारे संस्कृतभारत्याः प्रयासानां परिचयम् अददात् संस्कृतभारत्याः दक्षिणवङ्गप्रान्तस्य सचिवः श्रीस्वपनविश्वासमहोदयः। संस्कृते अनूदितेन रवीन्द्रसङ्गीतेन अरिजिद्-गुप्तः; स्तोत्रपाठेन कल्याणपण्डाः, मौ-सुदेष्णा-सुपर्णा-मानसमहोदयाः; बालगीतेन रूपसाशर्मवर्या, रियाघोषवर्या, शतद्रीमल्लिकमहोदया च; नृत्येन प्रीतिः अन्वेषा स्नेहा रूपसा च  कार्यक्रमं रुचिकरम् अकुर्वन्। संस्कृतेन कथां कथयित्वा अष्टमवर्गीयः बालः रोहणपालः सर्वेषां मनांसि अहरत्। मौ-अभिनन्दा-प्रीति-प्रियाङ्का-रोहणैः प्रस्तुतं श्रुतिनाटकं सर्वान् अरञ्जयत्। बारासतयोगाश्रमस्य अध्यक्षपादैः स्वामिसुसिद्धानन्दसरस्वतीयतिवरैः आशीर्वादैः संस्कृतसेवकाः सनाथीकृताः। हास्यरसाश्रितं संस्कृतनाटकं श्रीरामविट्ठलविरचितं वञ्चकः शृगाल इति सर्वेषां संस्कृतप्रेमिणां हर्षम् अजनयत्। सम्मेलनसमितेः अध्यक्षेण रवीन्द्रनाथरायमहोदयेन अध्यक्षीयप्रतिवेदनस्य प्रस्तावनात् परं सम्पादकेन प्रशान्तदेवर्येण सर्वेभ्यः कार्तज्ञ्यं प्रकटितम्। अन्ते शान्तिपाठः राष्ट्रगीतं च उपस्थितैः सर्वैः समवेततया कृतम्। समग्रस्य कार्यक्रमस्य सुन्दरं सञ्चालनं

Monday, January 8, 2018

पाकिस्थानस्य आक्रमणान् प्रतिरोद्धुं भूगर्भकवचाः निर्मीयन्ते ।
          नव दिल्ली > जम्मू मण्डलस्य सीमावासिनः सुरक्षायै एव इयं योजना । नियन्त्रण-रेखायां तथा राष्ट्रान्तरसीमायां च 14,460 भूगर्भकवचाः एवं निर्मीयन्ते । 415.73 कोटि रुप्यकाणि व्ययीकृत्य निर्मीयमाणैः कवचै: सार्धैकलक्षं कोटि  जनानां सुरक्षा प्रदास्यते। नियत्रण-रेखायां पूँच्, रजौरी
जनपदे 7298, राष्ट्रान्तर-सीमायां जम्मु, कठ्व,  साम्ब जनपदेषु 7162 संख्यकाः भूगर्भ कवचाः निर्मीयन्ते। अप्रतीक्षिते आक्रमणे अपि आत्मरक्षायै जनानां उपकारकाः  भवन्ति एते भूगर्भवासस्थानानि। गतवर्षे पाकिस्थानस्य आक्रमणेन प्रदेशेऽस्मिन् 35 संख्यकाः जनाः हताः। अस्मिन् गणनायां सैनिकाः अपि अन्तर्भवन्ति।
अमितवेगेन आपन्नायां कार् यानदुर्घटनायां ५ पञ्च भारोद्वहन-क्रीडापटवः मृताः।
       नव दिल्ली> अतिकठिनेन हिमधूमपटलेन अमितवेगेन च कारयानं मार्गभित्तिषु विघट्य एव दुर्घटना जाता। दिल्ली -चण्डिघट् मार्गे रविवासरे प्रभाते आसीत् दुर्घटना। घटनायां पञ्च भारोद्वहन-क्रीडापटवः मृताः एकः क्षतः च।  मोस्को नगरे गतवर्षे सम्पन्नायां भारोद्वहन-स्पर्धायां प्रथमस्थानं प्राप्तः साक्षंयादवः नामकः अपि मृतः । याने आहत्य षट् जनाः आसन्। मृतेषु  एकः  कः इति न  प्रत्यभिज्ञातः । यानस्य उपरिभागः पूर्णतया भग्नः अभवत् ।
कलोत्सवनगर्यां संस्कृतप्रदर्शिनी अद्भुतम् उद्पादयति। 
-दिलीप् वयनाट्
नटी मालविका संस्कृत प्रदर्शिन्याः उद्‌घाटनं करोति।
     तृश्शिवपेरूर् > केरलस्य कौमारकलोत्सवेन जाज्वल्यमानायां 'पूरनगर्यां' संस्कृतोत्सवमनुबध्य विशिष्टा संस्कृतप्रदर्शिनी सज्जीकृता। ५८ तम राज्यस्तरीय विद्यालय-कलोत्सवस्य प्रथमवेदिकायाः समीपे आरब्धा प्रदर्शिनी प्रशस्तचलनचित्राभिनेत्र्या मालविकया उद्घाटिता।
         अत्र संस्कृतभाषायां विद्यमानानां मासिकीनां तथा 'आन्ट्रोय्ड् आप्' सङ्केतानां, चित्रीकरणानां, ह्रस्वचलच्चित्राणां, संस्कृतचलच्चित्राणां च विपुलं प्रदर्शनं सम्पद्यते।संस्कृतोत्सवायोजनसमित्याः नेतृत्वे 'भरतमुद्रा' संस्कृतमासिक्याः 'नः लैव् सान्क्रिट्' इत्यस्य च सहयोगेनैव प्रदर्शिनी समायोजिता।  केरले प्रथमतया अस्ति  शताधिकसंस्कृतमासिकीनाम् एतादृशं प्रदर्शनं सज्जीकृतम्। तथा च समीपकाले एव प्रदर्शनाय सिद्ध्यमानानां संस्कृतचलच्चित्राणां ह्रस्वचित्राणां विवरणात्मकप्रदर्शनानां च लघुविवरणमपि प्रदर्शितानि सन्ति।
 एकताया: अखण्डतायाश्च कृते संस्कृतम् आवश्यकम् - एस.डी. शर्मा
वार्ताहर: - दीपक् शास्त्री

              जयपुरम् > संस्कृतभारती जयपुरपक्षत: जनवरीमासस्य षष्टदिनाङ्के मानसरोवरे स्थिते आदर्श-विद्या-मन्दिरे "जनपद-संस्कृतसम्मेलनस्य" आयोजनम् अभवत्। सम्मेलनस्य अध्यक्षरूपेण राजस्थान-सार्वजनिक-प्रन्यास-मण्डलस्य सभापति: श्री एस.डी.शर्मणा उक्तं यत् भारतस्य एकताया: अखण्डतायाश्च कृते संस्कृतभाषायाः आवश्यकता अस्ति। भारत: पुनः विश्वगुरु करणार्थं संस्कृतस्य प्रचार-प्रसार: आवश्यक: वर्तते। मुख्यातिथि: आईएएस के.के.पाठकेन संस्कृतभाषायाः महत्वविषये उक्तं यत् संस्कृतभाषाया: विश्वस्य सर्वा: भाषा: उद्धृताः सन्ति। एषा अद्यतनीया वैज्ञानिकि भाषा अस्ति आगामी बौद्धिकतायाः युगः वर्तते। अस्मिन् अवसरे प्रान्तस्य सम्पर्कप्रमुख: श्रीरघुवीर शर्मणा उक्तं यत् अद्यतनीय समाजे यदि संस्कृतं व्यवहारिकी भाषा न भविष्यति तर्हि आगामी संतते: संस्कृते: नाशस्य आक्षेप: अस्माकमुपरि आरोपिष्यति।
                कार्यक्रमस्य संयोजनम् श्रीप्रकाश शर्मणा कृतम्। समारोहे अन्ये अतिथय: जगद्गुरु-अवधबिहारी देवाचार्य:, संस्कृत-भारत्या: क्षेत्रीय-सङ्गठनमंत्री: श्री हुल्लास चन्दः, आरएसएससङ्गठनस्य क्षेत्रीय-बौद्धिकशिक्षणप्रमुख: श्रीकैलाशचन्दः, राजस्थानसंस्कृतविश्वविद्यालयस्य साहित्यविभागस्य सहायकाचार्य: डॉ• उमेश नेपाल: च एते सर्वेSपि स्वकीय विचारान् अप्रकटयन् । उभयो: सत्रयो: मध्ये मनमोहकेन सांस्कृतिककार्यक्रमेण सर्वेषाम् जानानाम् मानोरंजनं कारितम्। सम्मेलनस्य प्रतिवेदनं जयपुरमहागरस्य मन्त्री: श्रीसन्तोष: शर्मणा प्रस्तुतम्। सम्मेलनस्य सम्पूर्ण-प्रबंधनं जयपुर-प्रान्तस्य प्रचारप्रमुख: जनपदस्य पालक: च घनश्याम हरदेनियाँ इत्येनेन दृष्टम्। कार्यक्रमे प्रान्तमंत्री: श्री चन्द्रशेखर: शर्मा, प्रान्तप्रचार-प्रमुख: , विभाग-संयोजक: श्रीकानाराम जाट:, सहसंयोजक: श्रीअभिनव उपाध्याय:,सम्मेलन समिते: अध्यक्ष: बिरदीचन्द चौधरी: उपाध्यक्ष: अजय रावत:, अमितभारद्वाज:, मनीषशर्मा, महेंद्रशर्मा, रविशर्मा, दीपकशास्त्री आदय: बहवः कार्यकर्तार: संस्कृतप्रेमिणश्च उपस्थिता: आसन्।

Sunday, January 7, 2018

उत्तरभारते अतिशैत्येन ७१ मरणानि। 
         लख्नौ > उत्तरप्रदेशसहितेषु उत्तरभारतराज्येषु अतिशैत्यं प्रबलमनुवर्तते। उत्तरप्रदेशे गतदिने न्यूनतमः तापमानः डिग्रीत्रयपरिमितः आसीत्। विविधेषु जनपदेषु अतिशैत्यं शीतवायुवातनं च वर्तते।  यूपि राज्ये इतःपर्यन्तं ७१ जनाः अतिशैत्येन मृतिमुपगताः। सर्वकारस्य निर्देशमनुसृत्य वीथीपार्श्ववासिनाम् अनाथानां कृते अभयस्थानानि सज्जीकृतानि।
गोखाद्यकुम्भकोणं - लालुप्रसादस्य सार्धत्रिसंवत्सराणां कारागारदण्डः। 
           राञ्ची > गोखाद्यकुम्भकोणविषये द्वितीये व्यवहारे आर् जे डि दलस्य अध्यक्षः तथा बीहारस्य भूतपूर्वमुख्यमन्त्री लालुप्रसादयादवः सार्धत्रिसंवत्सराणां कारागारवासाय दशलक्षं रूप्यकाणां आर्थिकशुल्काय च दण्डितः। राञ्चीस्थस्य सविशेषसिबिऐ न्यायालयस्यायं विधिः। लालुं विना इतरे १५ पुरुषाः अपि दण्डिताः। 
        पशुपरिपालनपरिचयः वर्तते इत्यतः अपराधिनां विवृतं कारागृहम् उचितमिति न्यायाधीशेन शिवपालसिंहेन निरीक्षितम्। लालुप्रसादः अधुना व्याजविधेयकानि उपयुज्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि अपहृतवान् इत्यस्मिन् व्यवहारे दण्डितः सन् राञ्च्यां 'बिर्सा मुण्डा' सेन्ट्रल् कारागृहे बन्धितः अस्ति।

Saturday, January 6, 2018

अन्तर्जालस्य शक्तिः वर्धापयितुम् बृहत्तरः उपग्रहः विक्षिप्यते- ऐ एस् आर् ओ।
‍    नवदिल्ली > प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'डिजिट्टल् इन्त्या' योजना सक्षात्कर्तुमुद्दिश्य बृहत्तमः उपग्रहः विक्षेपणाय सज्जः अभवत् । षट् टण् भारमितः अस्य नाम जि साट्ट् ११ इति एवI भारतेन निर्मितेषु उपग्रहेषु अधिक-भारयुक्तः उपग्रहः भवति अयम् । ग्राम ग्रामान्तरेषु उपग्रहाधिष्ठितः अन्तर्जालसेवा उत्कृष्ठरीत्या  प्रदातुं शक्यते अनेन।
       फ्रञ्च् एरियन् ५ इति उपग्रह विक्षेपणिम् उपयुज्य भविष्यति विक्षेपणम् । ५०० कोटि रुप्यकव्ययेन निर्मिते उपग्रहे चतुर्मीट्टर् बृहद्दीर्घाकारेण निर्मितः चत्वारि सौरोर्जपुटानि सन्ति। भारतेन इतःपर्यन्तं विक्षिप्तानां  उपग्रह-वार्ता-विनिमयोपग्रहाणाम् आहत्य या क्षमता अस्ति सा क्षमता अस्य उपग्रहस्य अस्तीति अस्य विशेषता।.