OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 5, 2025

 नरेन्द्रमोदी 'ट्रिनिडाड् आन्ड् टोबैगो' राष्ट्रे।

पोर्ट् आफ् स्पेयिन्>  विदेशराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'ट्रिनिडाड् आन्ड् टोबैगो' नामके करीबियाद्वीपराष्ट्रं सम्प्राप्तवान्। ट्रिनिडाडस्य प्रधानमन्त्री कमला पेर्साद् इत्यस्याः नेतृत्वे उज्वलं स्वीकरणं मोदिने दत्तम्। 

  ततःपरं पोर्ट् आफ् स्पेयिन् इति राजधानीनगरे नरेन्द्रमोदी भारतीयजनसमाजम् अभिसम्बुध्यते स्म। तद्राष्टस्य  प्रधानमन्त्रिणः कमला पेर्सादस्य पूर्विकाः  भारते बिहारस्थाः आसन् इत्यतः बिहारस्य राजनैतिक-सांस्कृतिकविषयेषु औन्नत्यं मोदिना प्रशंसितम्।

Friday, July 4, 2025

गर्भस्थशिशोः मस्तिष्कपर्यन्तं सूक्ष्मप्लास्टिकद्रव्याणि  नवीनम् अनुसन्धान फलम् ।


    गर्भिण्याः शरीरात् गर्भस्थशिशुं प्रति सूक्ष्मप्लास्टिकद्रव्याणि सञ्चरन्ति, तानि तस्य मस्तिष्कं, हृदयम्,  श्वासकोशम् इत्यादीनि महत्त्वपूर्णाङ्गान् अपि बाधन्ते इति अध्ययनस्य निष्कर्षः।

   न्यू-जर्सी-प्रदेशे रट्गर्स्-नाम्नी अमेरिकायाः विश्वविद्यालये सम्पन्ने अनुसन्धाने एव एषा विस्मयजनका 

 भीतिप्रदा च सूचना लब्धा। माइक्रोप्लास्टिक् इति सूक्ष्मप्लास्टिकशेषद्रव्याणि मातुः गर्भाशयं,   प्लासेण्टम् च अतिक्रम्य, गर्भस्थशिशोः मस्तिष्कं, हृदयम्, यकृत्, वृक्का, श्वासकशः इत्यादिषु भागेषु व्याप्नुवन्ति इति प्रतिपादितम्।

विशेषतया पोलिमाइड्-१२ (PA-12) इति सूक्ष्मप्लास्टिकद्रव्येण परेक्षणे संपर्कं  दत्तः  गर्भिण्यः मूषिकायाः गर्भस्थशिशोः समस्ताङ्गेषु उक्तद्रव्यस्य उपस्थितिः दृष्टा।

एते माइक्रोप्लास्टिकद्रव्याणि पंचमिलिमिटरतः अपि लघूनि सन्ति। वायौ, जले, आहारद्रव्येषु च तेषां उपस्थितिः सम्भविता अस्ति। श्वसनमार्गेण, पाचनमार्गेण च शरीरं प्रविशन्ति। ततः कोशझिल्लिकाः अतिक्रम्य रक्तधारया सह गत्वा अत्यावश्यकानि आन्तराङ्गानि बाधयन्ति।

विशेषतः बालानां शरीरविकासकालदशायां एते द्रव्याणि कोशविकासं, अंगक्रियाम्, सम्यग्वृद्धिं च प्रतिकूलतया प्रभावितुम् अर्हन्ति।


निष्कर्षः — प्लास्टिकस्य अतीव सूक्ष्मद्रव्याणां शरीरे प्रवेशः बालशरीरविकासाय घातकः अस्ति। अतः लोकः स्वस्य पर्यावरणे सूक्ष्मप्लास्टिकद्रव्यवर्जनाय सजगः स्यात्।

यदि त्वम् इच्छसि, तर्हि अयं लेखः लघुपत्रिकायाम् (bulletin), वाचिकप्रस्तावनायाम् वा उपयोगाय अनुकूलतया परिवर्तयitum शक्यते।

 केरले वैद्यककलालयस्य भवनं भग्नं - एका महिला मृता।

दुर्घटनायां मृतीभूता बिन्दू, दुर्घटनाधीनं भवनं च। 

कोट्टयं> केरले कोट्टयं नगरे विद्यमानस्य वैद्यककलालयस्य [Medical College] ६८ वर्षाणां पुरातनत्वं कल्प्यमानस्य भवनसमुच्चयस्य कञ्चन अंशं भग्नीभूय एका महिला मृता। वैद्यककलालये चिकित्सार्थं प्रविष्टमानायाः युवत्याः माता तलयोलप्परम्प निवासिनी बिन्दू [५४] अस्ति एषा  दुर्योगाधीना। 

  ह्यः प्रभाते १०. ५० वादने आसीदियं दुर्घटना। प्रस्तुतभवनम् उपयोगरहितमासीत् इति कथ्यतेSपि अत्रत्याः  शौचालयाः रोगिभिः तेषां  परिचारकैश्च उपयुज्यमानाः आसन्। भवने भग्ने बिन्दू तत्रत्ये  शौचालये लग्ना अभवत्।  समीपस्थाः द्वित्राः अल्पव्रणिताः सन्तः रक्षिताः। 

  दुर्घटनावृत्तान्तं ज्ञात्वा स्वास्थ्यमन्त्री वीणा जोर्जः, सांस्कृतिकमन्त्री वि एन् वासवश्च दुर्घटनास्थानं प्राप्तवन्तौ। किन्तु उपयोगरहितं भवनमित्यतः  जनापायः न घटितः इति आतुरालयाधिकारिणां सूचनामवलम्ब्य मन्त्रिभ्यां प्रस्तुतं च। किन्तु स्वस्य माता  तत्र शौचार्थं गतवतीति आतुरालयं प्रविष्टायाः नवमीत्यस्याः युवत्याः परिदेवने श्रुते रक्षाप्रवर्तनं समारब्धम्। तावता होराद्वयस्य विलम्बः जातः आसीत्। नवम्याः मातुः मृतदेह एव समधिगतः।

 नरेन्द्रमोदिने घानाराष्ट्रस्य परमोच्चबहुमतिः। 

घानाराष्ट्रस्य परमोन्नतपुरस्कारः मोदिवर्याय दीयते। 

अक्र> पश्चिमाफ्रिक्कीयराष्ट्रस्य घानस्य परमोच्चबहुमतिः 'The Officer of the Order of the Star of Ghana' नामिका भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने सम्मानिता। बुधवासरे सम्पन्ने कार्यक्रमे घानस्य राष्ट्रपतिः जोण् द्रमाणि महामः पुरस्कारं समदात्। 

  आगोलस्तरे नरेन्द्रमोदिनः प्रभावं, विशिष्टां राष्ट्रतन्त्रज्ञतां च पुरस्कृत्य एवायं पुरस्कार इति राष्ट्रपतिना उक्तम्। भारतस्य १४० कोटिमितेभ्यः जनेभ्यः पुरस्कारः स्वीक्रियते इति मोदिवर्यः अवोचत्।

Thursday, July 3, 2025

 प्रधानमन्त्री घानाराष्ट्रं सम्प्राप्तवान्।

ब्रिक्स् उच्चशिखरे भागं करिष्यति। 


अक्र> दिनद्वयात्मकसन्दर्शनाय भारत प्रधानमन्त्री नरेन्द्रमोदी घाना इति आफ्रिकाराष्ट्रं सम्प्राप्तवान्। घानाराष्ट्रपतेः जोण् द्रमनि महाम इत्यस्य आमन्त्रणं स्वीकृत्य आसीत् मोदिवर्यस्य घानासन्दर्शनम्। 

  उभयोरपि राष्ट्रयोः सौहार्दं सम्पुष्टीकर्तुं चर्चाः भविष्यन्ति। जूलाय् ६, ७ दिनीङ्कयोः ब्रसीलस्थे रियो डि जनैरो इत्यत्र सम्पद्यमाने ब्रिक्स् राष्ट्राणाम् उच्चशिखरसम्मेलने प्रधानमन्त्री भागं वक्ष्यति।

 आत्मनः अनन्तरगामी भविष्यतीति दलैलामः। 

धर्मशाला (हिमाचलप्रदेशः) >   विश्वासिनां दीर्घकालीयाशङ्कां परिहृत्य, आत्मनः अनन्तरगामी भविष्यतीति टिबटस्य आत्मीयाचार्येण दलैलामवर्येण उद्घोषितम्। दलैलामा गुरुपरम्परा  अनुवर्तिष्यते, २०११ तमे वर्षे धर्मशालायां रूपीकृतः  'गाडन् फ्रोद्राङ्' नामकः प्रवासि सर्वकारः एव दलैलामानिर्वाचनस्य अधिकारीति गतदिने दलैलामावर्येण निगदितम्। दलैलामानिर्वाचने व्यवधातुं चीनप्रशासनस्य उद्यमस्य प्रत्युत्तररूपेणैव तेन एतत् सबलं स्पष्टीकृतम्। 

  १४ तम दलैलामस्य ९०तमं जन्मदिनं आगामि रविवासरे अस्ति। तद्दिने नूतनः दलैलामः उद्घोषयिष्यते इति प्रतीक्षा वर्तते।

 शुभांशुः मित्रैः सह 'मैक्रो आल्गे' परीक्षणेषु व्यापृतः वर्तते। 

बङ्गलुरु> अन्ताराष्ट्र बहिराकाशनिलये शुभांशु शुक्लः सहप्रवर्तकाश्च अतिमुख्यानि परीक्षणानि आरभन्त। इस्रो संस्थया नियुक्तानि परीक्षणानि च शुभांशोः कार्यभारे अन्तर्भवन्ति। 

  मैक्रो आल्गे नामकान् सूक्ष्मजीविनाम् अधिकृत्य परीक्षणानि शुभांशुना आरब्धानि। दीर्घकालं यावत् बहिराकाशदौत्यार्थं गच्छद्भ्यः सुस्थिरं पोषकसमृद्धं च भोज्यं परिकल्पयितुमस्ति मैक्रो आल्गे परीक्षणानि। 

  जलभल्लूकः [Water beer] नामकः जलसूक्षजीवी मैक्रो ग्राविटी इत्यवस्थायां कथं प्रतिस्पन्दते, सयनोबाक्टीरिया इति प्रकाशसंश्लेषणशेषीयुक्तस्य जलजीविनः प्रवर्तनं, षट्वर्गीयाणां बीजानां वृद्धिः, तेषां पत्राणां विकासः, बीजानाम् अङ्कुरणम् इत्यादयः इस्रो संस्थायैः शुभांशोः परीक्षणानि सन्ति।

Wednesday, July 2, 2025

 हिमाचले जलप्रलयः - २३ मरणानि। 

षिम्ला> दिनत्रयं यावत् अनुवर्तमानया अतिवृष्ट्या हिमाचलप्रदेशे जलप्रलयः। सोमवासरे मेघविस्फोटनं दुरापन्नमिति सूच्यते। प्रलयदुष्प्रभावेन २३ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्।

  भवनानि विशीर्णानि। माण्डिप्रदेशे भवति अधिकाधिकं विनाशः।

 तेलङ्काने औषधनिर्माणशालायां स्फोटनम्

३६ मरणानि। 

औषधनिर्माण शालायां दुरापन्ने स्फोटने विधत्तं रक्षाप्रवर्तनम्। 

हैदराबादः> तेलङ्कानराज्ये पषामैलारम् इत्यत्र औषधनिर्माणशालायां सोमवासरे  दुरापन्ने स्फोटने मृतानां संख्या ३६ अभवत्। मरणसंख्या वर्धिष्यते इति सूच्यते। 

  ' सिगाच्ची फार्मा कम्पनी' संस्थायाः  रियाक्टर् मध्ये आसीत् स्फोटनम्। मृतेषु अधिके ओडीषा- पश्चिमवंग- बिहारराज्यीयाः भवन्ति। मृतानां प्रत्यभिज्ञानं दुष्करमित्यतः डि एन् ए [D N A] परिशोधनेन प्रत्यभिज्ञातुं प्रक्रमाः आरब्धाः। अद्यावधि नव मृतशरीराणि प्रत्यभिज्ञातानि।

 दक्षिणभारतस्फोटनानि 

द्वौ निष्ठुरभीकरवादिनौ निगृहीतौ। 

चेन्नई> केरलं, तमिलनाड् इत्यादिषु दक्षिणभारतराज्येषु विधत्तानां स्फोटनानां सूत्रधारौ, विंशतिवर्षाधिकं यावत् निलीय वर्तमानौ, द्वौ निष्ठुरौ भीकरौ तमिलनाड् आरक्षकसेनायाः भीकरविरुद्धसेनया 'क्यू ब्राञ्च्' इत्यनया आन्ध्रप्रदेशतः निगृहीतौ।

  तमिलनाडस्थे नागूर् प्रदेशीयः अबूबकर् सिद्दिखः, तिरुनेलवेली प्रदेशीयः मुहम्मद अलिः इत्येतौ केरलं, तमिलनाड् राज्ययोः आरक्षकस्थानानि, भूतपूर्वः उपप्रधानमन्त्री एल् के अड्वाणिवर्येण विधत्ता रथयात्रा, चेन्नैयां हिन्दुसभाकार्यालयम् इत्यादीनि लक्ष्यीकृत्य जातानां स्फोटनानां सूत्रधारौ आस्तामेतौ।

Tuesday, July 1, 2025

 रवाडा चन्द्रशेखरः केरलस्य आरक्षकसेनायाः सर्वाधिकारी। 


अनन्तपुरी> डि जि पि पदीयः रवाडा आसाद्  चन्द्रशेखरः केरलराज्यस्य आरक्षकसेनायाः सर्वाधिकारिरूपेण नियुक्तः। केन्द्रप्रशासने सेवामनुष्ठीयमानः सः ततः विमोचितः सन् अद्य केरले कार्यभारं स्वीकरिष्यति। 

  आन्ध्रप्रदेशीयः रवाडा इदानीं सि ऐ बी संस्थायां सविशेष निदेशकरूपेण  [Special Director] सेवां कुर्वन्नस्ति। वर्तमानीनः डि जि पि पदीयः डो षेय्ख् दर्वेश साहिबः सेवानिवृत्तः इत्यनेनैव रवाडा चन्द्रशेखरस्य स्थानलब्धिः।

 वर्धापितं रेल् यानयात्रावेतनम् अद्य आरभ्य। 

चेन्नई> रेल् यानयात्रायाः वर्धापितं वेतनमानम् अद्य प्रवृत्तिपथमायाति इति रेल् मन्त्रालयेन निगदितम्। पञ्चवर्षेभ्यः परमेव यात्रामूल्यं वर्धते। मेयिल्, एक्स्प्रेस् वातानुकूलरहितचीटिकानां एककिलोमीटर् दूराय पैसैकस्य वर्धनमस्ति। वातानुकूलितचीटिकाभ्यः पैसाद्वयं किलोमीटर्दूराय वर्धते। सामान्यस्तररेल् यानेषु प्रथम ५०० कि मी दूराय वर्धनं नास्ति। ततःपरं किलोमीटर्दूराय पैसार्धस्य वर्धनमस्ति।

 भारत-इङ्गलाण्ट क्रिकट् 

द्वितीया निकषस्पर्धा श्वः आरभ्य।

भारतदलम्।

बिर्मिङामः> भारत-इङ्गलाण्टयोर्मध्ये द्वितीया क्रिकट् निकषस्पर्धा बुधवासरे 'एड्ज् बास्टण्' क्रीडाङ्कणे आरप्स्यते। प्रथमस्पर्धायां भारतं पराजितमासीत्। 

  यदि 'एड्ज् बास्टण्' क्रीडाङ्कणे भारतं विजयते तर्हि तत् चरित्रपरमिति मन्यते। यतः तस्मिन् क्रीडाङ्कणे भारतम् इतःपर्यन्तं न विजयीभूतम्। तत्र क्रीडितेषु अष्ट क्रीडासु सप्तसु पराजयमन्वभवत्। एकस्मिन् प्रतिद्वन्द्वे समस्थितिरासीत्। अतः एतां स्पर्धां भारतीयाः क्रिकट्प्रेमिणः आकाङ्क्षापूर्वं प्रतीक्षन्ते।

 जनसंख्यागणना - गृहगणना एप्रिल् मासे आरप्स्यते। 

नवदिल्ली> भारतीयजनसंख्यागणनाप्रवर्तनस्य प्रथमसोपानरूपेण गृहाणां सम्पत्तीनां च गणना एप्रिल् मासस्य प्रथमदिनाङ्कतः आरप्स्यते इति भारतस्य रजिस्ट्रार् जनरल् पदीयः गणनायोजनायाः आयोजिता च मृत्युञ्जय कुमार नारायणः  निगदितवान्। 

  जनसंख्यगणनाप्रवृत्तेः सोपानद्वयमस्ति। प्रथमसोपाने वासगृहाणां संख्या, प्रत्येकं गृहस्य अवस्थाः, धनविभवाः, सुविधाश्च समाकरिष्यन्ति। द्वितीयसोपाने प्रतिगृहं प्राप्य वैयक्तिक सामाजिक सांस्कृतिक आर्थिक शैक्षितस्तराणां वृत्तान्ताः सङ्गृहीष्यन्ते। अनेन सह जातिवृत्तान्तमपि समाहरिष्यन्ति।

Monday, June 30, 2025

 अहम्मदाबादे आकाशदुरन्तः। 

प्रतिलोमसंभाव्यता परिशुध्यते। 

अहम्मदाबादः> अहम्मदाबादे जूण् १२ तमे दिनाङ्के दुरापन्नायां  विमानदुर्घटनायां प्रतिलोमसम्भाव्यता अपि परिशुध्यते इति केन्द्रव्योमयानसहमन्त्रिणा मुरलीधरमोहेलवर्येण प्रोक्तम्। दुर्घटनास्थानात् सङ्कलितानि सि सि टि वि दृश्यानि अपि अन्वेषणसंस्थाभिः परिशुध्यन्ते। 

 ए ए ऐ बि संस्थायाः [Aircraft Accident Investigation Bureau]  नेतृत्वे अस्ति मुख्यतया अन्वेषणम्। दुर्घटनायां २४१ यात्रिकान् अभिव्याप्य २७५ जनाः मृत्युमुपगताः।

 भारतस्य 'डिजिटल् जनाधिपत्य'पदक्षेपः।

राष्ट्रे इदंप्रथमतया 'मोबैल् ई मतदानं' कृत्वा बिहारीयाः।

पाट्ना>  जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा [Mobile E App] मतदानं कुर्वत्  प्रथमराष्ट्रं भवति भरतम्। शनिवासरे सम्पन्ने प्रादेशिकनिर्वाचने जनाः ईदृशरीत्या स्वमतदानमकुर्वन्। 

पूर्वीयचम्पारन् जनपदे पक्रि दयाल् इत्यत्र बीबा कुमारी भवति प्रथमतया  जङ्गमदूरवाण्यधिष्ठिततन्त्रांशद्वारा मतदानं कृतवतीति राज्यनिर्वाचनायोगेन निगदितम्। 

  षट् नगरसभाः ग्रामसभाः च प्रति सम्पन्ने निर्वाचने आहत्य ६२. ४१% जनाः मतदानं कृतवन्तः। मतदानकेन्द्राणि प्राप्तुं ये क्लेशमनुभवन्ति तेषां कृते आसीत् ई - मतदानानुमतिः दत्ता।

Sunday, June 29, 2025

 उत्तरखण्डे आकस्मिकप्रलयः - नव कर्मकराः अप्रत्यक्षाः। 

कुलु> उत्तरखण्डस्थे उत्तरकाशिप्रदेशे रविवासरस्य प्रत्युषसि दुरापन्ने आकस्मिकप्रलये भवनसमुच्चयनिर्माणे व्यापृताः नव श्रमिकाः अप्रत्यक्षाः जाताः। कतिपयदिनानि यावत् तत्र अतिवृष्टिः अनुवर्तिता भवति। अद्य रक्तजाग्रताता उद्घोषिता।

 शुभाशु - प्रधानमन्त्रिणोः संवादः सम्पन्नः। 

"वसुधैव कुटुम्बकम् ; आत्यन्तिके मानवाः अद्वितीयाः इव" - शुभांशुः। 


नवदिल्ली>  इदं प्रथमतया  अन्ताराष्ट्रबहिराकाशनिलयं प्राप्तवान् भारतीयः शुभांशु शुक्लः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्भाषितवान्। शुभांशवे सुहृद्भ्यश्च शुभकामनाः आशंसितवान् मोदिवर्यः। 

मोदिनः कुशलप्रश्नाय 'अहमत्र सुरक्षितः, परीक्षणादिकर्मसु व्यापृतः वर्ते' इति प्रत्युत्तरम् उक्तवान्। 

  बहिरन्तरिक्षात् भवता किं प्रथमं दृष्टमिति प्रधानमन्त्रिणः प्रश्नस्य शुभांशोः प्रतिवचनमित्थमासीत् - " राष्ट्रसीमारहितां केवला पृथ्विरेका  एव दृश्यते। आत्यन्तिकतया मानवानाम् एकत्वमेव प्रतीयते। भूमिः एक एव परिवारः इति भाति" 

  अष्टादश मिनिट् मितकालाधिकं तयोः संवादः अवर्तत। निलये तस्य व्यवहारनिष्ठाः, भोजनव्यवस्थाः, अनुभवाः इत्यादयः  सम्भाषणविषयाः अभवन्।

 पाकिस्थाने आत्मघात्याक्रमणं - १६ सैनिकाः हताः।

पेषवार्> अफ्गानिस्थानोपान्ते खैबर् पक्तूण ख्व इति पाकिस्थानीयप्रदेशे शनिवासरे जाते आत्मघात्याक्रमणे १६ सैनिकाः हताः। २९ जनाः क्षताः जाताः। आहतेषु  सामान्यजनाः प्रादेशिकप्रशासनाधिकारिणश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'पाकिस्थान तालिबान्' इति कथ्यमानस्य 'तेह्रिके तालिबान् पाकिस्थानं' [टि टि पि]  संघटनस्य हाफिस् गुल् बहादूर् इति शाखासंघटनेन स्वीकृतम्। 

  सैन्यस्य वाहनव्यूहेन सह  स्फोटकवस्त्वुपेतं वाहनं आत्मघातिना संघट्टितमासीत्। स्फोटने समीपस्थं भवनद्वयं विशीर्य षट् बालकाः आहताः।

Saturday, June 28, 2025

 अहम्मदाबाद विमानदुर्घटना 

'ब्लाक् बोक्स्' स्वीकृतांशानां पुनर्ग्रहणं सम्पूर्णम्। 

तत्वांशविशकलनं पुरोगम्यते। 

नवदिल्ली> अहम्मदाबादे दुर्घटनाधीनस्य एयर् इन्डिया विमानस्य 'ब्लाक् बोक्स्' इति उपकरणद्वयम् अधिगम्य तयोरन्तभूतान् दत्तांशान् [datas] पुनर्गृहीतुं प्रयत्नः सम्पूर्ण इति व्योमयानमन्त्रालयेन निगदितम्। ताभ्यां दत्तांशानां विशकलनमारब्धमिति च मन्त्रालयेन सूचितम्।


'

 अमरनाथ तीर्थाटनं जुलाई तृतीयदिनाङ्के आरप्स्यते। 


जम्मु> अमरनाथ तीर्थाटनं आगामिसप्ताहे आरप्स्यमाणे प्रयाणक्षेत्रेषु सुरक्षा प्रबलीकृता। सीमायां संघर्षे वर्तमाने जम्मु काश्मीरस्य आरक्षकदलं विना अर्धसेनाविभागस्य १८० कम्पनिमितं सैनिकाः पर्यटकाणां सुरक्षायै नियुक्ताः इति सर्वकारेण निगदितम्।

   तीर्थाटकानां प्रथमसंघः जुलाई तृतीयदिनाङ्के प्रयाणमारप्स्यते। अमरनाथप्रयाणाय द्वौ मार्गौ विद्येते। अनन्तनागजनपदस्थे पहल्गाम मार्गेण ४८ कि मी दूरमस्ति। गन्धर्बाल् जनपदस्थेन बाल्तल् मार्गेण १४ कि मी दूरस्य ऊनमस्ति चेदपि यात्रा कठिना भविष्यति।

 केरले अतिवृष्टिः। 

आकेरलं महानाशः, निम्नप्रदेशेषु जलोपप्लवः, पञ्च मरणानि।

कोच्ची> केरले कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या बहुत्र महानाशः अभवत्। विविधस्थानेषु वृष्टिदुष्प्रभावेण ५ जनाः मृत्युमुपगताः। द्वौ जलप्रवाहे पतित्वा, त्रयः वंगराज्यीयाः  वासगृहं विशीर्य च मृत्युं प्राप्ताः। 

  केरले सर्वाः जलसम्भरण्यः सम्पूर्णाः विद्यन्ते। तासु बाणासुरसागर (वयनाट्), मलम्पुष़ा (पालक्काट्) इति जलसम्भरणीद्वयस्य जलबहिर्निर्गमनद्वाराणि उद्घाट्य अधिकजलं बहिः प्रवाहयितुमारब्धम्।

Friday, June 27, 2025

 एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं  काठमाण्डूनगरे समारब्धम्

एकोनविंशतितमं विश्व-संस्कृत-सम्मेलनं गुरुवासरे (2025 जुन् 27) काठमाण्डूनगरे समारब्धम्।  नेपाल-संस्कृत-विश्वविद्यालयेन नेपाल-अकाडमी-सभागारे आयोजिते सस्मिन् पञ्चदिनात्मके सम्मेलने विद्वांसः, संशोधकाः, संस्कृतानुरागिणः च विविधदेशेभ्यः, विशेषतः भारतात्, यूरोपात्, अमेरिका-देशात् च, भागं स्वीकुर्वन्तः सन्ति।


सम्मेलनस्य उद्घाटनसत्रे नेपालस्य राष्ट्रपतिः रामचन्द्रः पौडेलः भाषणं कृतवान्। सः अवदत् 

  "'नेपाल' इति शब्दः वेदेषु अपि दृश्यते। लिच्छवि-मल्लकालादपि संस्कृतस्य प्रचुरं प्रयोगः अस्तीति शिलालेखैः (द्विशताधिकैः) प्रमाणीकृतम्।" राष्ट्रपतिना संस्कृतस्य ह्रासकारणमपि निरूपितम् 

 "स्त्रीणां, नीचवर्णीयानां च जनानां प्रति अध्ययनं विहितं नासीत्, अतः प्रचलने न्यूनता जातम्। परं वर्तमानतः राज्येन तस्य प्रचारः संरक्षणं च क्रियते।"

नेपाल-संस्कृत-विश्वविद्यालयस्य बौद्ध-अध्ययन-विभागाध्यक्षः प्रो. काशीनाथ-नेउपाने उक्तवान् –

"सर्वेषां देशेषु संस्थानात् अत्र आगतान् भागिनः प्रति वयं सादरं स्वागतं कुर्मः।

 "भारतीयः धर्माचार्यः चिन्ण-जीयर्-स्वामिः अपि भाषणं कृत्वा उक्तवान् –

"संस्कृतं देवभाषा। वेदेषु ईश्वरः यथारूपेण प्रकाश्यते। संस्कृतं लोकान् एकत्र आनयति।"

सायं समये भारतीय- सांस्कृतिक-नृत्यानि (कथक्, भरतनाट्यम् इत्यादीनि) समर्प्य सांस्कृतिक-कार्यक्रमः अपि आयोज्यते स्म।

एतत् सम्मेलनं जवाळाखेलप्रदेशे स्थिते DAV सुशील् केडिया विश्व-भारती-विद्यालये जुन् 30 तमे दिनाङ्कं यावत्  भविष्यति।

 शुभप्रवेशः।

बहिराकाशयात्रिकाः सुरक्षिताः अन्ताराष्ट्रनिलयं प्रविष्टवन्तः।

चत्वारः यात्रिकाः बहिराकाशनिलयस्य अन्तः। 

अन्ताराष्ट्रनिलयं प्राप्तवान् प्रथमो भारतीयः शुभांशु शुक्लः। 

फ्लोरिडा> १४० कोटि जनानामभिमानं गतदिने बहिराकाशं प्राप्य वज्रकान्तिं प्राप। शुभांशु शुक्लः नाम उत्तरप्रदेशीयः इदंप्रथमतया अन्ताराष्ट्रबहिराकाशनिलयं प्रविष्टवान् भारतीयः अभवत्। तदा उत्तर अत्लान्टिक् समुद्रस्य उपरि ४२४ कि मी उच्चस्थाने आसीत् ऐ एस् एस् नामकम् अन्ताराष्ट्रबहिराकाशनिलयम्। 

बुधवासरे विक्षिप्तं ड्रागण् इति बहिराकाशपेटकं शुभांशुमभिव्याप्य चतुरः यात्रिकान् ऊढ्वा २८ होराणां प्रयाणानन्तरं गुरुवासरे सायं  सार्धचुर्वादने बहिराकाशनिलयेन सह सम्बद्धम्। 'डोकिंग्' इति एतत्प्रक्रियानन्तरं पेटकनिलययोः अन्तर्मर्दसमीकरणादीन् क्रियाविधीन् समाप्य उपषट्वादने [भारतसमयः] ड्रागणपेटकात् एकैकशः बहिराकाशनिलयं 'प्रवाहावतरणं' कृतवन्तः। 

  प्रथमं दौत्यस्य नेता पेग्गी विट्सण् , द्वितीयः भारतस्य शुभांशु शुक्लः, ततः स्लावोस् उस्लन्स्कि विस्नीस्कि [पोलण्ट्], अनन्तरं टि बोर् कापुः [हंगरी] च निलयं प्रति तत्र वर्तमानीयैः यात्रिकैः प्रेमालिंगनेन  स्वीकृताः।

 इरान-इस्रयेलयोः युद्धे इरानस्य विजय इति अयत्तोल्ला खमीनि। 

अयत्तोल्ला खमीनिः। 
 

टेहरानः> परस्पराक्रमणस्थगनानन्तरं प्रथमप्रतिकरणेन इरानस्य परमोन्नतनेता अयत्तोल्ला अलि खमीनिः। इस्रयेलं विरुध्य युद्धे इरानः विजयीभूतः, अमेरिकाप्रशासनस्य उपरि  मुखप्रहरं कर्तुम् अवसरः लब्धः इति खमीनिना अभिमानितम्। इरानस्य राष्ट्रियदूरदर्शनद्वारा आसीत् खमीनेः प्रस्तावः। 

  इस्रयेलस्य पराजयमासन्नं भवेदिति चिन्तायामासीत् अमेरिकायाः व्यवधानम्। किन्तु अमेरिकायाः खत्तरस्थं सैनिकनिलयमाक्रम्य अमेरिकां प्रति महाप्रहरं विधातुमशक्नोत् इति च खमीनिः उक्तवान्। इरानस्य आणवनिलयं प्रति अमेरिकायाः आक्रमणं व्यर्थं जातमिति अमेरिकया अवबोधितमिति च तेन प्रस्तुतम्।