'तुलावर्षः' सम्प्राप्तः।
अनन्तपुरी> तुलावर्षनामकः उत्तरपूर्वीयवर्षाकालः केरलं सम्प्राप्त इति केन्द्रपर्यावरणविभागेन निगदितम्। २१ तमदिनाङ्कपर्यन्तं केरले व्यापकतया वृष्टिर्भविष्यति। बहुषु जनपदेषु जाग्रत्तानिर्देशः उद्घोषितः।
ट्रम्पस्य विकत्थनं पुनरपि।
रूसात् तैलेन्धनक्रयं समापयितुं मोदिनः वाग्दानमस्तीति ट्रम्पः।
निषिध्य भारतम्।
वाषिङ्टणः> रष्याराष्ट्रात् भारतस्य असंस्कृततैलेन्धनस्य क्रयं समापयितुं स्वमित्रेण नरेन्द्रमोदिना बुधवासरे वाग्दानं कृतमिति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः अभिमानितवान्। 'वैट् हौस्' मध्ये वार्ताहरैः सह विधत्ते अभिमुखे आसीत् ट्रम्पस्य विकत्थनम्। सार्धवर्षत्रयेण अनुवर्तमानस्य रूस-युक्रैनयुद्धस्य परिसमाप्तये महत्तरं सोपानमस्ति एतदिति च तेनोक्तम्।
किन्तु ट्रम्पस्य आत्मप्रशंसावादः भारतेन निषिद्धः। ट्रम्पेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे दूरवाणीद्वारा सम्भाषणं नाकरोत् इत्येव स्वस्य बोध्यमिति विदेशकार्यवक्ता रणधीर जयस्वालः वार्ताहरसम्मेलने न्यगादीत्। ट्रम्पस्य प्रस्तावे बहिरागते भारते विपक्षीयदलस्य तीव्रविमर्शः जातः।
छत्तीसगढे ७८ मावोवादिनः आत्मसमर्पणं कृतवन्तः।
काङ्करं> छत्तीसगढ राज्ये ४३ महिलाः अभिव्याप्य ७८मावोवादिनः आत्मसमर्पणं कृतवन्तः। सुक्मा जनपदात् २७, काङ्करं जनपदात् ५० च मावोवादिनः सन्ति। राजमान् माण्डवी, राजु सलामः इत्येतौ कुप्रसिद्वावपि आत्मसमर्पितेषु अन्तर्भवतः। राज्ये मावोवादं अन्तमाप्नोतीति मुख्यमन्त्रिणा विष्णु दियो साय् इत्यनेनोक्तम्।
पाकिस्थान-अफ्गानिस्थानसीमायां संघर्षः प्रोज्वलति।
४०+ अफ्गानीयतालिबानीयाः पाक्सेनया व्यापादिताः।
इस्लामबादः> कतिपयदिनैः पाकिस्थानस्य अफ्गानिस्थानस्य च सीमायाम् अनुवर्तमानः संघर्षः गुरुत्वमावहति। बुधवासरे चत्वारिंशदधिके अफ्गानिस्थानीयाः तालिबानीयाः पाकिस्थानसेनया व्यापादिताः, विंशज्जनाः व्रणिताः च इति तैः निगदितम्।
बलूचिस्थानप्रदेशे चतुर्षु स्थानेषु तालिबानभीकरैः कृतस्य आक्रमणस्य प्रत्याघात आसीत् पाकिस्थानस्य आक्रमणम्। ततः ४८ होराणां भुषुण्डिप्रयोगविरामः पाकिस्थानेन विधत्तम्। टि टि पि इति तालिबानीयभीकरसंघटनं पाकिस्थाने निरन्तरमाक्रणं करोतीत्यस्य आधारे एव उभयोरपि राष्ट्रयोर्मिथः संघर्षः आरब्धः।
केनियायाः भूतपूर्वप्रधानमन्त्री केरले दिवंगतः। 
रयिला अमिलो ओडिंगा।
कूत्ताट्टुकुलं> आयुर्वेदपरिचर्यार्थं केरलं प्राप्तवान् केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री रयिला अमिलो ओडिंगाभिधः [८०] हृदयाघातेन मृतः। एरणाकुलं जनपदे कूत्ताट्टुकुलस्थे श्रीधरीयम् आयुर्वेदचिकित्सालयस्य वासगृहस्याङ्कणे प्रभातपदचलनावसरे सीदन् पतितः आसीत्।
चिकित्सार्थं ओक्टोबर् १०तमे सपरिवारं प्राप्तः ओडिंगवर्यः १७ तमे दिनाङ्के प्रतिनिवर्तयितुम् उत्सुकः आसीत्। रक्तातिसम्मर्दः, प्रमेहः, वृक्करोगः इत्यादिभिः ग्रस्त आसीत् स इति आतुरालयाधिकृतैः निगदितम्।
मृतशरीरं कोच्ची अन्ताराष्ट्रविमाननिलयात् सविशेषविमाने केनियां नीतम्। २००८ - '१३ कालखण्डे आसीत् सः प्रधानमन्त्रिपदम् अलङ्कृतवान्।
राष्ट्रपतिः शबरिगिरिं प्राप्स्यति।
अनन्तपुरी> भारतराष्ट्रपतिः द्रौपदी मुर्मू २२ तमे दिनाङ्के शबरिगिरौ धर्मशास्तृमन्दिरं सन्द्रक्ष्यति। तद्दिने दर्शनाय सन्निधानं प्राप्तवतां तीर्थाटकानां नियन्त्रणं विधास्यति।
मुर्मूवर्या ओक्टोबर् २१ तः २४ दिनाङ्कपर्यन्तं केरले भविष्यति। २२ तमे दिनाङ्के प्रभाते एकादश वादने राष्ट्रपतिः पम्पां प्राप्स्यति। शास्तृदर्शनविध्यनुसारं गूर्खायाने सन्निधानं गमिष्यति। देवदर्शनानन्तरं त्रिवादने पम्पां प्रतिनिवर्तमाणा मुर्मुवर्या ४. २० वादने अनन्तपुरीं प्रस्थास्यति।
जम्मु-काश्मीरे भीकरौ व्यापादितौ।
श्रीनगरं> जम्मु-काश्मीरस्य कुप् वारा जनपदस्थां नियन्त्रणरेखाम् अतिक्रामितुं प्रयततौ द्वौ भीकरौ सुरक्षासेनया व्यापादितौ।
सोमवासरे निशीथिन्यां नियन्त्रणरेखायां भारतसेनया विधत्ते मार्गणे सन्दिह्यमाने व्यवहारे दृष्टे सेनया भुषुण्डिप्रयोगः कृतः। अत्रतः महान् आयुधसञ्चयः अपि निगृहीतः।
भारत-वेस्ट् इन्डीस् निकषपरम्परा भारतेन स्वायत्तीकृता।
द्वितीयस्पर्धायां सप्त द्वारकाणां विजयः। 
परम्परोपलब्धौ भारतगणस्य आह्लादः।
नवदिल्ली> वेस्ट् इन्डीसं विरुध्य भारतस्य द्वितीयः क्रिकट् निकषप्रतिद्वन्द्वः भारतेन विजितः। स्पर्धायाः पञ्चमदिनेे विजयप्राप्तये ५८ धावनाङ्केषु आवश्यकेषु होराभ्यन्तरे भारतं विजयतीरं प्राप। अनेन परम्परा अपि भारतेन प्राप्ता।
कुलदीपयादवः श्रेष्ठक्रीडको जातः। रवीन्द्र जडेजा परम्परायाः श्रेष्ठक्रीडकः अभवत्।
सप्राणं जीवनं प्रति प्रतिनिवर्तनम्।
सप्राणाः २० इस्रयेलीयबद्धाः हमासेन विमोचिताः।
इस्रयेनेन १९०० पालस्तीनीयाः मोचिताः।
डेयर् अल् बला> वर्षद्वयं यावत् दीर्घितायाः आकांक्षायाः प्रतीक्षायाः च विरामं कृत्वा ते स्वेषां प्रियाणां समीपं प्राप्तवन्तः। हमासेन बद्धाः सप्राणाः २० इस्रयेलीयाः सोमवासरे विमोचिताः। अचिरादेव इस्रयेनेन बद्धान् १९०० पालस्तीनीयान् वहन्ति बस् यानानि वेस्ट् बान्क् इत्यत्र प्राप्तानीति हमासेन स्थिरीकृतम्। अनेन गासायां शान्तेः वातावरणमजायत।
शान्तिपुनःस्थापनार्थं निश्चितः सन्धिः यू एस्, ईजिप्त्, खत्तरराष्ट्रैः हस्ताक्षरीकृतः। तदर्थं केय्रो मध्ये गतरात्रौ अन्ताराष्ट्रीयशिखरसम्मेलनं सम्पन्नम्।
नोटां पूर्वसूचना, भारतस्य तन्त्रप्रधानम् यद् अग्निबाणपरीक्षणं तन्निरीक्षितुं चीनः यू एस् च आगमिष्यतः।
. नवदिल्ली> तन्त्रप्रधानाय अग्निबाणपरीक्षणाय भारतं सज्जीकरोति। एतदनुबन्धितया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूरमण्डलेषु स्थितौ स्ततः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चिते इत्यस्ति आवेदनम्॥
अर्थशास्त्रनोबेलः त्रिभ्यः दीयते।
![]() |
| वामतः यथाक्रमं जोयल् मोकिरः, फिलिपे अगियोणः, पीटर् होविट्। |
स्टोक् होमः> अस्य वर्षस्य अर्थशास्त्रनोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। नेतर्लान्टराष्ट्रे लब्धजन्मा यू एस्-इस्रयेल आर्थिकशास्त्रज्ञः जोयल् मोकीरः [७९], फ्रान्सीयः फिलिपे अगियोणः [६८], कनेडियः पीटर् होविट् [७८] इत्येतेभ्यः एव पुरस्कारः।
नूतनाधिगमनानि साङ्केतिकविद्यायाः विकासश्च आर्थिकविकासाय कथमुपकरोति इति अन्वेषणं पुरस्कृत्य अस्ति एतेभ्यः पुरस्कारदानम्।
पाकिस्थान-अफ्गानिस्थानसंघर्षः अनुवर्तते।
अनुरञ्जनप्रक्रमेण खत्तरः सौदी च।
इस्लामबादः> पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशेषु कतिपयदिनैः अनुवर्तमानस्य संघर्षस्य लाघवं न जातम्। शनिवासरे पाकिस्थानस्य सैनिककेन्द्राणि लक्ष्यीकृत्य विधत्ते आक्रमणे ५८ जनाः मृताः इति अफ्गानिस्थानस्य रक्षामन्त्रालयेन अभिमानितम्। किन्तु २०० तालिबानीयभीकराः व्यापादिताः इति पाकिस्थानेन च निगदितम्। तेहरिक् ई तालिबान् [टि टि पी] इति निरोधितभीकरसंघटनस्य शिबिराणि प्रति एवाक्रमणं कृतमिति पाकिस्थानस्य रक्षामन्त्रालयेन अभिमानितम्।
खैबर् पख्तूण् ख्व, अंगूर अडा, बजावूर्, खुरं, दिर्, चित्राल् इत्येतेषु स्थानेषु वर्तमानानि सैनिककेन्द्राणि एव अफ्गानिस्थानेन व्योमाक्रमणं विधत्तम्। कतिपयस्थानेषु आत्मघात्याक्रमणमपि कृतमिति सूच्यते।
सौदि अरेब्या, खत्तर राज्ययोः व्यवधानेन रविवासरस्य प्रत्युषसि आक्रमणं स्थगयितमासीत्।
पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशे डूरन्ट् लैन् इत्यत्र कतिपयकालेन संघर्षः वर्तते। अतीते गुरुवासरे टि टि पी संघटनेन पाकिस्थानस्य जनाधिवासक्षेत्राणि लक्ष्यीकृत्य कृते आक्रमणे उन्नतपदीयं सेनाधिकारिणमभिव्यप्य उपत्रिंशत् जनाः मृत्युमुपगताः आसन्।
विशीर्णभवनावशिष्टानां मध्ये
बान्धवान् मार्गमाणाः गासीयाः।
पञ्चलक्षं जनाः प्रत्यागतवन्तः। 
गासां प्रतिनिवृत्तमानाः गासीयजनाः।
गासानगरं> युद्धविरामे प्रबले जाते गासाप्रान्तस्य बृहत्तमं नगरं नाम्ना गासासिटीं प्रति पञ्चलक्षं निवासिनः प्रतिनिवर्तिवन्तः। यत्र तेषां गृहाणि वर्तन्ते स्म, तत्र वर्तमानेषु अवशिष्टसञ्चयेषु ते तिरोभूतान् स्वबान्धवान् अन्विष्यन्ते। 'गासा सिविल् डिफन्स् एजन्सि' इत्यस्य साह्येनैव अयं प्रयत्नः। युद्धानन्तरं ९५०० जनाः तिरोभूताः इति प्राथमिकगणना।
यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य २० अधिकरणात्मिकायाः अभियोजनायाः अङ्गीकारेण शुक्रवासरे आसीत् युद्धविरामः प्रवृत्तिपथमागतः।
चीनीयोत्पन्नानां १००% करम् उद्घोषयन् ट्रम्पः।
वाषिङ्टणः> चीनराष्ट्रात् अमेरिक्कां प्रति आयातानां पण्यवस्तूनां करं नवम्बर् प्रथमदिनादारभ्य १००% करिष्यति इति राष्ट्रपतिः डोनाल्ड ट्रम्पः उदघोषयत्। इदानीं तत् ३०% भवति।
कतिपयानां software उत्पन्नानां निर्यातनियन्त्रणमपि विधास्यतीति ट्रम्पेन प्रस्तुतम्। ट्रम्पस्य उद्घोषणेन यू एस् राष्ट्रस्य अंशकविपणी अधः पपात।
वैभवहस्तकघटी आरभ्य सुरक्षा-छायाचित्रग्राही पर्यन्तं चीनस्य उपकरणानि राष्ट्रसुरक्षायै भीषा - अमेरिकः ।
सुरक्षायै भीषा इत्युक्त्वा चीनस्य प्रौद्योगिकविद्यया निर्मितानां वैद्युतोपकरणानां विक्रयः अमेरिकेन निरुद्धः। चीनस्य उपकरणानि अमेरिकस्य नागरिकान् आवेक्षयिष्यन्ति तथा राष्ट्रस्य दत्तविवरण -विनिमयानि अलक्ष्यं कर्तुमवसरः भविष्यति इत्युक्त्वा भवति निरोधनम्।
शबरिगिरौ सुवर्णफलकचौर्यम् - अन्वेषणमारब्धम्।
उण्णिकृष्णन् पोट्टिम् अभिव्याप्य १० अपराधिनः।
![]() |
| मन्दिरस्य द्वारपालकशिल्पेषु अन्यतमः। |
अनन्तपुरी> केरले शबरिगिरौ श्रीधर्मशास्तामन्दिरस्य द्वारपालकशिल्पस्थाः सुवर्णफलकाः अपहृताः इत्यस्मिन् प्रकरणे राज्यापराधविभागेन [Crime branch] अपराधपत्रद्वयं पञ्जीकृतम्। प्रथमापहरणं २०१९ मार्च मासे द्वितीयं तु जूलाय् मासे च सम्पन्नमित्यत एव प्रकरणद्वयं पञ्जीकृतम्।
मन्दिरशिल्पानि सुवर्णायितानि कर्तुं प्रायोजकरूपेण [sponsor] व्यवहृतवान् उण्णिकृष्णन् पोट्टी नामकः प्रकरणद्वये अपि प्रथमापराधी भविष्यति। तमभिव्याप्य १० अपराधिनः प्रथमचरणे सन्ति। इतरे तु तत्तत्कालीनाः देवस्वसंस्थाधिकारिणः भवन्ति।
अमेरिकस्य नियुक्तस्थानपतिः भारतं प्राप्तवान्।
अमेरिकेन भारते राजदूतः सेर्जियो गोरः प्रधानमन्त्रिणा मोदिना सह मिलितवान्। महोदयस्य सेवाकाले उभयोः राष्ट्रयोः नयतन्त्रसाह्यं विशालं भविष्यति इति मोदिना आत्मविश्वासं प्राकटयत्। विषयमधिकृत्य x - सामाजिकमाध्यमे सः सन्देशं प्रकाशितवान्। गोरेण सम्मानितं चित्रं अपि मोदिना x मध्ये प्रकाशितम् अस्ति।
नवभिः यू के विश्वविद्यालयैः भारते विदूरपठनकेन्द्राणि आरप्स्यन्ते - प्रधानमन्त्री।
मुम्बई> युणैटड् किंग्डम [UK] राष्ट्रस्य नव विश्वविद्यालयाः भारते तेषां विदूरपठनकेन्द्राणि आरप्स्यन्ते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत्। भारतसन्दर्शनाय प्राप्तेन ब्रिटनस्य प्रधानमन्त्रिणा केयर् स्टामरेण सह मुम्बय्यां राजभवने सम्पन्नस्य मेलनस्यानन्तरम् आयोजिते संयुक्तवार्ताहरसम्मेलने भाषमाणः आसीत् नरेन्द्रमोदी। उभयपक्षयोः शैक्षिकसहयोगे निर्णायको भवति अयं निश्चयः इति मोदिवर्येण उक्तम्।
गासा शान्तिमधिगच्छति।
गासातः इस्रयेलसेनायाः अपसरणमारब्धम्। 
गासायां युद्धनिरासस्य वार्तां श्रुत्वा आह्लादं प्रकटयन्तः बालाः।
गासानगरं> वर्षद्वयं यावत् दीर्घितस्य रक्तप्रस्रवणस्य ५६ होराणां शान्तिचर्चा फलप्रदा जाता। ह्यः गासायां युद्धनिरासः प्रवृत्तिपथमागतः। स्थलयुद्धात् गृहं परित्यक्तवन्तः गासानिवासिनः पालस्तीनीयाः प्रत्यागन्तुमारब्धवन्तः।
शान्तिपुनःस्थापनं लक्ष्यीकृत्य यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन समर्पितायाः २० अधिकरणात्मिकपरियोजनायाः प्रथमचरणं इस्रयेलेन अङ्गीकृतमासीत्। परियोजनायाम् अङ्गीकृतं निश्चितस्थानं प्रति इस्रयेलसेना अपगता इति इस्रयेलरक्षासेनया [IDF] निगदितम्।
सन्ध्यनुसारिण्यः व्यवस्थाः यथाकालं न पूर्तीकरिष्यन्ते चेत् इस्रयेलेन युद्धं पुनरारप्स्यते इति बञ्चमिन् नेतन्याहुः भीषामुद्घोषितवान्।
अफ्गानस्य विदेशमन्त्री दिल्लीं प्राप्तवान्।
नवदिल्ली> षट् दिवसात्मकानां सन्दर्शनाय तथा भारतशासकीयैःसह चर्चायै च अफ्गानिस्थानस्य अर्थात् तालिबानप्रशासनस्य विदेशमन्त्री अमीर् खान मुत्तखी गुरुवासरे दिल्लीं प्राप्तवान्। २९२१ तमे वर्षे तालिबानसंघटनस्य अधिकारप्राप्त्यनन्तरं इदंप्रथमतया एव अफ्खानराष्ट्रस्य कश्चनाधिकारी भारतम् आगच्छति ।
सन्दर्शनवेलायां भारतविदेशकार्यमन्त्री एस् जयशंकरः, राष्ट्रिय सुरक्षा उपदेष्टा अजित डोवलः इत्येताभ्यां सह प्रधानविषयेषु मुत्तखी चर्चां करिष्यति।
शान्तिनोबेलः महिलायै समर्पयति।
मरिया कोरीना मचाडो पुरस्कृता।
स्टोक् होमः> अस्मिन् वर्षे शान्त्यर्थं दीयमानाय नोबेलपुरस्काराय मरिया कोरीना मचाडो नामिका मानवाधिकारप्रवर्तका अर्हा अभवत्। वेनिस्वला राष्ट्रस्य विपक्षनेत्री अस्ति मरिया कोरीना। शान्तिनोबेलपुरस्कारेण समाद्रियमाणा २० तमा महिला भवति ५८ वयस्का मरिया कोरीना।
वेनस्वला इति दक्षिणामेरिकीयराष्ट्रे अनुवर्तमानं लोकतन्त्रविरुद्धप्रशासनं विरुध्य २००२ तमवर्षादारभ्य मानवाधिकाराय प्रचाल्यमानस्य संग्रामस्य नेत्री अस्ति मरिया। इदानीं निलीय एव सा प्रक्षोभं नयति। वेनस्वेलियजनतायै प्रचाल्यमानस्य प्रवर्तनस्य अङ्गीकारः एव पुरस्कारवब्धिरिति निरीक्षते।
क्रास्न हार्कयी इत्यस्मै साहित्यनोबेलः।
स्टोक् होमः> शक्तया तत्तचिन्ताधिष्ठितया च रचनया अक्षरशक्तिं प्रमाणीकृतवान् हंगेरियः साहित्यकारः नाम्ना लास्लो क्रास्न हार्कयी २०२५ तमवर्षस्य साहित्य नोबेलपुरस्काराय चितः। आधुनिकयूरोपीयसाहित्ये प्रमुखेषु अन्यतमो भवति क्रास्न हार्कयी।
पञ्च आख्यानानि [Novels] तेन रचितानि। पूर्णविरामं विना दीर्घेण संकीर्णघटनायुक्तेन च वाक्येन खण्डिकाः पुटानि वा विरच्यमानानीति तस्य रचनारीतिः।
हङ्गतीतः नोबेलसम्मानजेता द्वितीयः साहित्यकारः अस्ति क्रास्न हार्कयी। 'सातान् टोंगो' [SATANTANGO' अस्य विश्वविख्याता आख्यायिका अस्ति।
उद्योगिनः संख्यां न्यूनीकर्तुम् अक्सेञ्चर् संस्थया २०० कोटि डोलर् व्ययीकृतम्।
आधारसुविधायाः विकासाय औद्योगिकसंस्थाः अधिकं धनं सामान्येन व्ययीकुर्वन्तः सन्ति खलु ?। किन्तु विगतेषु त्रिषु संवत्सरेषु आहत्य तस्मिन् कालाभ्यन्तरे आक्सेञ्चर् संस्थया तेषां २०० कोटि डोलर् धनं कर्मकराणां संख्यां न्यूनीकर्तुमेव व्ययीकृतम्। विगते मासत्रयाभ्यन्तरे ११ सहस्राधिके कर्मकराः ततः निष्कासिताः। नूतन कौशलानि प्रौढान् कर्मकरान् परिशीलयितुं (re skilling) न शक्यन्ते इत्यनेन भवति अयं दुःखपूर्णः निश्चयः स्वीकृताः इति संस्थायाः CEO जूलि स्वीट् उक्तवती। कृत्रिमबुद्धिमत्तायाः प्रयोगे प्रयत्नं कर्तुम् बद्धश्रद्धालू भवति संस्था इत्यस्ति प्रतिवेदनम्।
कान्पुरे द्विचक्रिकाद्वयं विस्फोटितम्।
अष्ट व्रणिताः; चत्वारः तीव्रावस्थायाम्।
![]() |
| स्फोटितं यानद्वयं आरक्षकैः परिशुध्यते। |
कान्पुरं> उत्तरप्रदेशस्थे कान्पुरे 'मेस्टण् रोड्' नामके आपणप्रदेशे द्वयोः द्विचक्रिकयोः विस्फोटने अष्ट जनाः व्रणिताः। तेषु चतुर्णामवस्था कठिनतरा इति सूच्यते।
बुधवासरे रात्रौ सार्धसप्तवादने आसीदियं दुर्घटना। समीपप्रदेशस्थाः आपणाः भग्नाः। याने छद्मना संभृतानि विस्फोटकानि विद्युत्कोशाः वा स्फोटनस्य हेतुरिति सन्दिह्यते। आरक्षकैः अन्वेषणमारब्धम्।