पाकिस्थान-अफ्गानिस्थानसीमायां संघर्षः प्रोज्वलति।
४०+ अफ्गानीयतालिबानीयाः पाक्सेनया व्यापादिताः।
इस्लामबादः> कतिपयदिनैः पाकिस्थानस्य अफ्गानिस्थानस्य च सीमायाम् अनुवर्तमानः संघर्षः गुरुत्वमावहति। बुधवासरे चत्वारिंशदधिके अफ्गानिस्थानीयाः तालिबानीयाः पाकिस्थानसेनया व्यापादिताः, विंशज्जनाः व्रणिताः च इति तैः निगदितम्।
बलूचिस्थानप्रदेशे चतुर्षु स्थानेषु तालिबानभीकरैः कृतस्य आक्रमणस्य प्रत्याघात आसीत् पाकिस्थानस्य आक्रमणम्। ततः ४८ होराणां भुषुण्डिप्रयोगविरामः पाकिस्थानेन विधत्तम्। टि टि पि इति तालिबानीयभीकरसंघटनं पाकिस्थाने निरन्तरमाक्रणं करोतीत्यस्य आधारे एव उभयोरपि राष्ट्रयोर्मिथः संघर्षः आरब्धः।