ट्रम्पस्य विकत्थनं पुनरपि।
रूसात् तैलेन्धनक्रयं समापयितुं मोदिनः वाग्दानमस्तीति ट्रम्पः।
निषिध्य भारतम्।
वाषिङ्टणः> रष्याराष्ट्रात् भारतस्य असंस्कृततैलेन्धनस्य क्रयं समापयितुं स्वमित्रेण नरेन्द्रमोदिना बुधवासरे वाग्दानं कृतमिति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः अभिमानितवान्। 'वैट् हौस्' मध्ये वार्ताहरैः सह विधत्ते अभिमुखे आसीत् ट्रम्पस्य विकत्थनम्। सार्धवर्षत्रयेण अनुवर्तमानस्य रूस-युक्रैनयुद्धस्य परिसमाप्तये महत्तरं सोपानमस्ति एतदिति च तेनोक्तम्।
किन्तु ट्रम्पस्य आत्मप्रशंसावादः भारतेन निषिद्धः। ट्रम्पेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे दूरवाणीद्वारा सम्भाषणं नाकरोत् इत्येव स्वस्य बोध्यमिति विदेशकार्यवक्ता रणधीर जयस्वालः वार्ताहरसम्मेलने न्यगादीत्। ट्रम्पस्य प्रस्तावे बहिरागते भारते विपक्षीयदलस्य तीव्रविमर्शः जातः।