प्राणैः जीवितं प्रतिनिवर्तनम्।
सप्राणाः २० इस्रयेलीयबद्धाः हमासेन विमोचिताः।
इस्रयेनेन १९०० पालस्तीनीयाः मोचिताः।
डेयर् अल् बला> वर्षद्वयं यावत् दीर्घितायाः आकांक्षायाः प्रतीक्षायाः च विरामं कृत्वा ते स्वेषां प्रियाणां समीपं प्राप्तवन्तः। हमासेन बद्धाः सप्राणाः २० इस्रयेलीयाः सोमवासरे विमोचिताः। अचिरादेव इस्रयेनेन बद्धान् १९०० पालस्तीनीयान् वहन्ति बस् यानानि वेस्ट् बान्क् इत्यत्र प्राप्तानीति हमासेन स्थिरीकृतम्। अनेन गासायां शान्तेः वातावरणमजायत।
शान्तिपुनःस्थापनार्थं निश्चितः सन्धिः यू एस्, ईजिप्त्, खत्तरराष्ट्रैः हस्ताक्षरीकृतः। तदर्थं केय्रो मध्ये गतरात्रौ अन्ताराष्ट्रीयशिखरसम्मेलनं सम्पन्नम्।