अर्थशास्त्रनोबेलः त्रिभ्यः दीयते। वामतः यथाक्रमं जोयल् मोकिरः, फिलिपे अगियोणः, पीटर् होविट्।
स्टोक् होमः> अस्य वर्षस्य अर्थशास्त्रनोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। नेतर्लान्टराष्ट्रे लब्धजन्मा यू एस्-इस्रयेल आर्थिरशास्त्रज्ञः जोयल् मोकीरः [७९], फ्रान्सीयः फिलिपे अगियोणः [६८], कनेडियः पीटर् होविट् [७८] इत्येतेभ्यः एव पुरस्कारः।
नूतनाधिगमनानि साङ्केतिकविद्यायाः विकासश्च आर्थिकविकासाय कथमुपकरोति इति अन्वेषणं पुरस्कृत्य अस्ति एतेभ्यः पुरस्कारदानम्।