OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 15, 2025

 राष्ट्रपतिः शबरिगिरिं प्राप्स्यति। 

    अनन्तपुरी> भारतराष्ट्रपतिः द्रौपदी मुर्मू २२ तमे दिनाङ्के शबरिगिरौ धर्मशास्तृमन्दिरं सन्द्रक्ष्यति। तद्दिने दर्शनाय सन्निधानं प्राप्तवतां तीर्थाटकानां नियन्त्रणं विधास्यति। 

  मुर्मूवर्या ओक्टोबर् २१ तः २४ दिनाङ्कपर्यन्तं केरले भविष्यति। २२ तमे दिनाङ्के प्रभाते एकादश वादने राष्ट्रपतिः  पम्पां प्राप्स्यति। शास्तृदर्शनविध्यनुसारं गूर्खायाने सन्निधानं गमिष्यति। देवदर्शनानन्तरं त्रिवादने पम्पां प्रतिनिवर्तमाणा मुर्मुवर्या ४. २० वादने अनन्तपुरीं प्रस्थास्यति।