OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 28, 2017

नीतिपीठेषु जनानां विश्वासः नष्टो मा भूत् – राष्ट्रपतिः रामनाथ कोविन्दः।

         कोच्ची >नीति-न्याय-व्यवस्थायां जनानां विश्वासः अत्यधिकतया अस्ति। तस्य विश्वासस्य संरक्षणे दायित्वम् अभिभाषकनां एव भवति इति राष्ट्रपतिना रामनाथ कोविन्देन अभिभाषकाः प्रबोधिताः। एरणाकुलं जनपदे केरलीयोच्चन्यायालयस्य वज्रजयन्तीसमरोहस्य समापनाधिवेशनम् उद्घाटयन् भाषमाणः आसीत् महोदयः। सामान्यजनानां केवलं नीतिलाभेन किमपि प्रयोजनं नास्ति। जनानां कृते न्यायालयस्य आदेशाः मातृभाषायां लब्धुं व्यवस्थापि करणीया इत्यपि राष्ट्रपतिना प्रबोधिताः।