OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 16, 2017

सोमालियायां भीकराक्रमणं – मरणानि २३० जातानि।             
              मोगदिषु > सोमालियाराष्ट्रस्य राजधान्यां 'मोगदिषु' नामके नगरे दुरापादिते  विस्फोटने मृत्युमुपगतानां संख्या २३० जाता। ३०० तः अधिकाः जनाः व्रणिताः च। विस्फोटनाक्रमणस्य सूत्रधारित्वं अल् खायिदा संबन्धितायाः 'अल् षबाब्' नामिकायाः भीकरसंस्थायाः इति सोमालियन् सर्वकारेण आरोपितम्। किन्तु आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। नगरस्थं जनसम्मर्द्दभूतं आवाससमुच्चयं लक्ष्यीकृत्य आसीत् विस्फोटनम्। विस्फोटकवस्तुसम्पूर्णं ट्रक् यानं विस्फोटितमासीत्।
    सोमालियायां समीपकाले प्रवृत्तेषु स्फोटनेषु बृहत्तमं भवत्येतदिति अघिकृतैरुक्तम्। सर्वकारेण त्रिदिवसीयं औद्योगिकं दुःखाचरणं प्रख्यापितम्।