OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 4, 2017

भीकराक्रमणस्य लक्ष्यः श्रीनगरविमाननिलयः।
श्रीनगरम्> गतदिने श्रीनगरे दुरापन्नेन भीकराक्रमणेन श्रीनगरस्थं विमान-निलयः लक्षीकृतः इति आवेदनम् आगतम्। मङ्गलवासरे अतिप्रातः श्रीनगरविमाननिलयसमीपे सीमासेनायाः स्थानेषु  दुरापन्ने आत्मघातिभीकरेण विमाननिलयः लक्षीकृतः इति प्रमाणं लब्धम्। आक्रमणे द्वौ सैनिकौ वीरमृत्युं प्राप्तौ। त्रयः भीकराः सेनया मारिताः च। CRPF, BSF सैनिकाः एव विमाननिलयस्य सुरक्षाकार्याणि कुर्वन्ति इत्यनेन विमाननिलयं प्रवेष्टुम् अशक्तैः भीकरैः बी एस् एफ् केन्द्रः आक्रमितः इति अनुमीयते। जय् षे इ मुहम्मदस्य अफ्सल् गुरु स्क्वाड् विभागः अस्याः घटनायाः पृष्टतः इति सूचना लब्धा।