OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 2, 2017

उष़ुन्नालवैदिकाय जन्मग्रामस्य प्रेमनिर्भरं स्वीकरणम्। 
कोच्ची > भीकरेभ्यः मोचितः सन् केरलं सम्प्राप्ताय फादर् टोम् उष़ुन्नालिल् वैदिकाय जन्मग्रामः पाला रामपुरं ग्रामः प्रेमोष्मलं स्वीकरणम् आयोजयत्। 
     सायं सार्धपञ्चवादने जन्मग्रामसमीपस्थं पालानगरं सम्प्राप्तः उष़ुन्नालवैदिकः ततः वाहनव्यूहस्य अनुगमनेन रामपुरं ग्रामहृदयम् आनीतः। अनावरणेन जीप् यानेन रामपुरं देवालयं गच्छन्तं तं वीथीपार्शयोः प्रतीक्षमाणाः सहस्रशः जनाः हर्षारवेण अभिवाद्यं समर्पितवन्तः। कृतज्ञतापुरस्सरं प्रत्यभिवाद्यं कुर्वन् रामपुरं फरोना देवालयं प्राप्तः उष़ुन्नालः सहस्रशानां ग्रामीणानां बन्धुजनानां च सान्निध्ये कुर्बानाराधनां समर्पितवान्। तत्र कारागारदुरितेभ्यः मोचनं सम्प्राप्तमित्यस्मै जगदीश्वराय कृतज्ञतां प्रकाशितवान्। ततः प्रवृत्ते सम्मेलने सः आत्मनः मोचनाय इतःपर्यन्तम् अहोरात्रं प्रार्थनापूर्णचित्तानां तद्देशवासिनां बान्धवानां च कृते धन्यवादं समर्पितवान्। 
    सामाजिकाः के एम् माणी, रोषि अगस्टिन् , जोस् के माणी इत्यादयाः प्रमुखाः स्वीकरणसम्मेलने$स्मिन् भागं स्वीकृतवन्तः!