OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 4, 2017

रयिल्यानस्य पुरतः स्वच्छायाग्रहणम्। त्रयः छात्राः मृताः
बङ्गलूरु> धावन्तीं रेल्यनस्य पुरतः स्थित्वा स्वच्छायाग्रहणे निरताः छात्राः मृताः। प्रभाते सार्ध नववादने एव घाटना। जवेन आगतानां रयिल् यानस्य पुरतः स्थित्वा स्वच्छाया ग्रहणं कृतम् इति आरक्षकाः वदन्ति। एतदधिकृत्य अन्वेषणानि प्रचलन्ति।
वण्टर् ल नाम स्थलजल-क्रीडाक्षेत्रे क्रीडनानन्तरं समीपस्थं रेल् पथे स्वच्छायाग्रहणाय आगतवन्तः आसन्। मृतयोः द्वौ बाङ्गळूरु नेषणल् कलाशालायाः विद्यार्थिनौ स्तः।  बाङ्गलूरुनगरे स्वच्छायाग्रहणभ्रमेन आपन्ना द्वितीया घटना भवति इयम्। पूर्वं एन् सि सि विद्यार्थिनः नद्यां स्नानस्य स्वच्छाया ग्रहणसमये एकः निमज्जनेन मारितः। अनन्तरं ग्रहीतस्य चित्रस्य पुनरालोकनसमये एव सतीर्थ्यस्य मृतिः गृहीतचित्रेषु दृष्टवन्तः आसन्।