OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 12, 2017

भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयः।
               नवदेहली> भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयनाय गह्वराणि निर्मीयन्ते इति संस्तुतिः। दिल्लीतः ७५० कि.मी दूरे मियान्वाली मध्ये पाक्किस्थानेन गह्वराणि निर्मीयन्ते। अमृतसरतः मियान्वाली पर्यन्तं केवलं ३५० कि. मी दूरमेव वर्तते। 
 मियान्वाली मध्ये १४० अणुशस्त्राणि सञ्चयितुमस्ति पाक्किस्थानस्य पद्धतिः। तदर्थं दशमीट्टर उन्नतानि तथा दशमीट्टर विस्तृतानि च गह्वराणि पाक्किस्थानेन निर्मीयन्ते । एतानि बृहद्भिः वीथीभिः सुघटितानि सन्ति। 
                 प्रति गह्वरस्स विशेषतया द्वाराणि सन्ति। प्रतिगह्वरे द्वादशतः चतुर्विंशतिपर्यन्तं शस्त्राणि सञ्चयितुं शक्यते इति अस्ति रहस्या वार्ता।