OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 24, 2017

श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य श्रीप्रमुखस्वामीमहाराजद्वारस्य लोकार्पणविधिः
                भारतवर्षः सन्तविभूतीनां जन्म-कर्मस्थानम्। विश्ववन्द्यप्रमुखस्वामिमहाराजो
महाविभूतिस्वरूपः। तस्य जीवनं युगातीतगाथारूपम् आसीत्। यत्र तस्य नाम संयुज्यते तत् खलु दिव्यताभाजनं भवति नात्र शङ्कापङ्कलेशावकाशः। अधुनैव तादृशः प्रसङ्गः संस्कृतविश्वस्य गौरवप्रदः सञ्जातः। द्वादश-स्वयंभूज्योतिर्लिङ्गेष्वाद्यतमे सोमनाथमहादेवस्य प्रभासक्षेत्रे संस्थिते श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य प्राङ्गणे अत्यद्भूतं द्वारं बीएपीएसस्वामिनारायण-संस्थासौजन्येन विनिर्मापितम्। तस्य नाम श्रीप्रमुखस्वामिमहाराजद्वारम्। 51’ परिमितमुच्चैःस्थं 69’ परिमितं लम्बायमानं 16’ स्थवीयो द्वारमिदम्। एतदेव तस्य भव्यतायाः साक्षि। यस्मिन् क्षीरार्णवशिल्पशास्त्रानुसारं नैकविधाः सरस्वतीनां सर्वेषां दर्शनानां कलानाञ्च प्रतिनिधिरूपाः कालिदास-वेदव्यास-पाणिनि-पतञ्जल्याद्यानां मूर्तयः जीवत्कल्पाः शोभन्ते। तस्य लोकार्पणं 6-10-2017 पुण्याहे सम्पन्नम् । तत्काले वर्तमानकुलपतिश्री-अर्कनाथचौधरीमहोदयेन व्याहृतं यदेतादृशं महाद्वारं मया विलोकितेषु 200 संङ्ख्याकविश्वविद्यालयेषु कुत्रापि नैव दृष्टिगोचरम्।
अस्मिन् ऐतिहासिकावसरे बीएपीएस संस्थायाः वरिष्ठसद्गुरुश्रीडॉक्टरस्वामिनः (स्वामिस्वयं- प्रकाशदासाः), संस्थाया अन्ताराष्ट्रियसंयोजका ईश्वरचरणदासस्वामिनः, प्रमुखस्वामिमहाराजेन सह चत्वारिंशदिधकवर्षपर्यन्तं भ्रमणकर्तारः स्वामिविवेकसागरदासस्वामिनः राज्यस्तरीय-नागरिकोड्डयनमन्त्रिवर्या जशाभाईबारडमहोदयाः महापौराः जगदीशभाईफोफंडीमहोदयाः अन्ये च समाहर्त्रादयाः महानुभावाः सम्मिलिताः।
प्रमुखस्वामिमहाराजस्य वर्तमानानुगामिमहन्तस्वामिमहाराजेन लन्दननगरात् वीडीओमाध्यमेन स्वाशिर्वचांसि व्याहरन् सम्भाषितं यत् –‘अस्माद् द्वाराद् यः कोपि गमनागमनं विधास्यति तस्यान्तःकरणशुद्धिः सम्प्त्स्यते।’ कार्यक्रमारम्भे आर्षशोधसंस्थाननिदेशकेन संस्कृतस्य महत्त्वं तथा स्वामिनारायणसंस्थायाः एतद्विश्वविद्यालयेन सहारम्भकालात् सम्बन्धो निरूपितः। कुलपति-महोदयेन भारतीयसंस्कृतिः संस्कृतसम्भृता इत्येतत् प्रत्यपादि। विवकसागरस्वामिभिः संस्कृत-संस्कृति-सन्त इत्येतेषां त्रयाणां महत्तां व्याहृत्य प्रमुखस्वामिमहाराजेन विहिता तेषामभिवृद्धिः सम्यक् परिवेषिता। ईश्वरचरणस्वामिभिः पूर्वगुरूणां संस्कृतानुरागं प्रतिपाद्य वर्तमानकाले प्रमुखस्वामिमहाराजेन लिखापितानि भद्रेशदासस्वामिविरचितप्रस्थानत्रयीभाष्याणि सगौरवं समुल्लेखितानि। मध्ये छत्रपतिशिवाजीमहाराजस्य सफलताया रहस्यरूपाया गुरुनिष्ठायाः तथा स्वधर्मनिष्ठायाः प्रतिपादकं नाटकं तथा संस्कृत-संस्कृतिसन्तमहिमवृद्धिप्रदं नृत्यं बालयुवाभिः निदर्शितम् । 2000 संख्याकाः जना गौरवमये कार्यक्रमेस्मिन् सम्मिलिताः। स्थानीयवर्तमानपत्रैः द्वितीयदिने अस्याः प्रसिद्धिर्मुद्रापिता।
जयतु संस्कृतम्, जयतु भारतम्, जयतु स्वामिनारायणः