OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 27, 2017

राष्ट्रपतिः अद्य केरलं प्राप्नोति। 
             अनन्तपुरी > द्विदिनात्मकसन्दर्शनाय भारतराष्ट्रपतिः रामनाथकोविन्दः अद्य केरलराजधानीम् अनन्तपुरीं प्राप्नोति। शुक्रवासरे शनिवासरे च विविधानां परियोजनानाम् उद्घाटनानि करिष्यति। अपराह्ने २.५० वादने तिरुवनन्तपुरं प्राप्यमाणः राष्ट्रपतिः , ३.३०वादने पल्लिप्पुरं प्रदेशस्थायाः 'टेक्नो सिटि' योजनायाः उद्घाटनं करिष्यति। राज्यपालः पि सदाशिवं, मुख्यमन्त्री पिणरायि विजयः इत्यादयः कार्यक्रमे भागभागं करिष्यन्ति। अद्य सायं षड्वादने अनन्तपुर्यां नगरसभायाः नेतृत्वे पौरस्वीकरणम् आयोज्यमाणमस्ति। 
      शनिवासरे प्रभाते ९.३०वादने कोच्चीं प्राप्यमाणः राष्ट्रपतिः उच्चन्यायालयस्य 'वज्रजूबिली' आघोषाणां समापनसम्मेलनस्य उद्घाटनं करिष्यति। अनन्तरं १२.३०वादने दिल्लीं प्रतिनिवर्तते च।