OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 28, 2017

केरळम् विविधमण्डलेषु आदर्शभूतं राज्यमिति राष्ट्रपतिः। 
       अनन्तपुरी > आतिथ्यव्यवहारः, स्वास्थ्यमण्डलं, विनोदसञ्चारः, बोधनकलाविज्ञानं (Information Technology, इत्यादिषु मण्डलेषु राज्यान्तराणाम् आदर्शभूतं राज्यं भवति केरलमिति राष्ट्रपतिः राम् नाथ् गोविन्दः प्रकीर्तितवान्। ह्यः केरलं प्राप्तः सः पल्लिप्पुरं प्रदेशे आयोज्यमानायाः 'टेक्नो सिटि' परियोजनायाः प्रथमसर्वकारभवनसमुच्चयस्य शिलास्थापनं कुर्वन् भाषमाणः आसीत्। केरलं 'डिजिटल् भारतस्य' शक्तिस्रोतः (Power House) अभवत्। राष्ट्रे भूयिष्ठं जङ्गमदूरवाणीव्यापनभूतं राज्यमस्ति केरलम्। राष्ट्रपतिना उक्तम्। 
    राज्यपालः पि सदाशिवम् अध्यक्षपदमलंकृतवान्। मुख्यमन्त्री पिणरायि विजयः , मन्त्री कटकंपल्ली सुरेन्द्रः आदयः प्रमुखाः सन्निहिताः आसन्।