OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 25, 2017

म्यान्मर् राष्ट्रस्य कृते दीयमानं सैनिकसाहाय्यं स्थगयति।
              वाषिङ्टण् > रोहिन्ग्यन् वंशीयानां उपरि अनुवर्त्यमाने वंशीयातिक्रमे विप्रतिपत्या म्यान्मर् राष्ट्रायदीयमानं सैनिकसाहाय्यं स्थगयतुम् विचार्यते यू एस् राष्ट्रेणI  म्यान्मर् सैनिकनेतारं विरुध्य क्रियाविधयः इतोऽपि अधिकतया भविष्यन्ति इति यू एस् स्टेट् विभागस्य प्रवक्ता हेतर् नौवर्ट् उक्तवान्। इमं विषयमधिकृत्य सख्यदलेन साकं विचिन्तनमकरोत् इति च सः अवदत्। म्यान्मर् देशे जनाधिपत्य-संरक्षणमुद्दिश्य क्रियमाणाय प्रवर्तनाय साह्यम् अनुवर्तते। तद्वत् रोहिन्ग्यस्य माहम्मदीयानाम् उपरि क्रियमाणाः राखैन् राज्यस्य प्रतिसन्धीः परिहर्तुं प्रचाल्यमानाय प्रयत्नाय साह्यः भविष्यति। पलायितानां सुरक्षितरीत्या स्वदेशप्राप्त्यर्थं  सैविध्यं कल्पनीयम्। अभयार्थिनां कृते विना विलम्बं साहाय्यं करणीयमिति च यू एस् राष्ट्रण म्यान्मरः अभ्यर्थितः।