OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 29, 2017

अण्डर् - १७ लोकचषकः - इङ्गलण्ट् दलस्य विजयभेरी। 
        कोल्कोत्ता > 'फिफा'याः ऊनसप्तदशवयस्कानां पादकन्दुकस्पर्धायाः अन्तिमे द्वन्द्वे इङ्लण्ट्दलस्य उज्वलविजयः। 'साल्ट् आन्ड लेक्' क्रीडाङ्गणे शनिवासरे संवृत्ते अन्तिमप्रतिद्वन्द्वे स्पेयिन् दलं द्वयं प्रति लक्ष्यकन्दुकपञ्चकेन पराजित्य आङ्गलेयकुमाराः किरीटं प्राप्तवनतः। अण्डर् १७ क्रीडायां तेषां प्रथमं किरीटं भवत्येतत्। 
    मत्सरस्य पूर्वार्धस्य अन्तिमं निमिषं यावत् स्पेयिन् दलं सेर्जियो गोमस् नामकेन क्रीडकद्वारा  एकपक्षीयेन लक्ष्यकन्दुकद्वयेन अग्रे आसीत्। इङ्ग्लण्ट क्रीडकस्य ब्रूस्टर् नामकस्य प्रतिलक्ष्यकन्दुकेन पूर्वार्धं समाप्तम्। इङ्ग्लण्ट् दलस्य  उत्साहभरितेन  प्रत्याक्रमणेनैव उत्तरार्धस्य प्रारम्भः। गोमसेन प्राप्तं लक्ष्यकन्दुकयुगलं निष्प्रभं कृत्वा पुनरपि चत्वारः लक्ष्यकन्दुकाश्च स्पेयिन् जाले पतिताः। गिब्स् वैट् [१], गूहि [१], फोडन् [२] इत्येते क्रीडकाः लक्ष्यकन्दुकान् प्राप्तवन्तः।