OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 17, 2017

मण्डलकालसिद्धताववोकनाय केरलमुख्यमन्त्री शबरिगिरिं प्राप्तवान्। 
शबरिगिरिः > मासैकानन्तरम् आरभ्यमाणस्य शबरिगिरितीर्थाटनस्य सिद्धताम् अवलोकयितुं केरलस्य मुख्यमन्त्री पिणरायी विजयः ह्यः रात्रौ सन्निधानं प्राप्तवान्। रात्रौ अष्टवादने पम्पां प्राप्तं मुख्यमन्त्रिणं देवस्वं मन्त्री कटकंपिल्ली सुरेन्द्रः, देवस्वं समित्यध्यक्षः प्रयार् गोपालकृष्णः इत्यादयः स्वीकृतवन्तः। अतिथिमन्दिरे किञ्चित्कालविश्रान्त्यनन्तरं 'स्वामि अय्यप्पन्' मार्गेण पद्भ्यामेव तस्य प्रथमं शबरिगिर्यारोहणं कृतवान्। एकादशवादने सन्निधानं प्राप्तः च।
     अद्य सम्पद्यमाने उपवेशने मन्त्रिणः उद्योगस्थाश्च मुख्यमन्त्रिणं प्रति तीर्थाटनकालसिद्धताः विशदीकरिष्यन्ति। तदनन्तरं सन्निधाने पम्पायां च आयोज्यमानानां विविधानां योजनानां आधारशिलास्थापनं निर्माणप्रवर्तनोद्घाटनं च मुख्यमन्त्री निर्वक्ष्यति।