OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 9, 2017

धर्मपरे सौहार्दे केरलस्य पारम्पर्यः उज्वलः - राष्ट्रपतिः। 
कोल्लम् > धार्मिकं सौहार्दं केरलजनतायाः मध्ये दृढमिति राष्ट्रपतिः रामनाथकोविन्दः। केरलस्य तादृशः पारम्पर्यः उज्वल इति मातुः अमृतानन्दमयीदेव्याः ६४- तम जन्मदिनाघोषमनुबन्ध्य प्रारभ्यमाणानां त्रयाणां सेवायोजनानाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।
     भारतं प्रति आगतवन्तः क्रैस्तवाः प्रथमं केरले एव प्राप्ताः। प्रथमः इस्लामदेवालयः अपि केरले एव वर्तते। जूताः रोमन् देशीयाश्च केरलं प्राप्ताः। ते सर्वे अपि परस्परविश्वासेन सहवर्तित्वेन च अन्येषां धार्मिकव्यवस्थाम् आदृत्य उषितवन्तः च। राष्ट्रपतिः केरलस्य धार्मिकपारम्पर्यं प्रशंस्य उक्तवान्। 
     केरलस्य आध्यात्मिकपारम्पर्यमपि राष्ट्रपतेः प्रशंसायै पात्रीभूतमभवत्। श्रीशङ्करः, श्रीनारायणगुरुः, अय्यन्कालिः इत्यादयः आध्यात्मिकतया सह सामाजिकपरिष्करणाय अपि प्रयत्नं कृतवन्तः आसन्निति राष्ट्रपतिना उक्तम्।