OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 8, 2017

भीकरतां विरुद्ध्य प्रवर्तयतु। नोचेत् क्रियाविधयः भविष्यन्ति नूनम्।
          वाषिङ्टण् > भीकरतायै साह्यं क्रियमाणं पाकिस्थानमुद्दिश्य अमेरिकायाः पूर्वसूचना I
क्रियाविधीनां पूर्वकार्यरूपेण द्वौ नयतन्त्र अद्योगिनौ पाकिस्थानं प्रेषयिष्यतः। राष्ट्रपतेः नयतन्त्र उपदेशकौ सन्धिविग्रहकार्यस्थः रेक्स् टिलेर्सण्,  प्रतिरोध-कार्यस्थः जिम् माट्टिस् च अस्य मासस्य अन्तिमवारे पाकिस्थानं यास्यतः।
          पाकिस्थानः आतङ्कवादिभिः सुरक्षितवासाय स्थानं कल्पयति, रीतिषु व्यतिलोमः कर्तयः, नो चेत् क्रियाविधयः भविष्यन्ति इति पूर्व सूचना एव पाकिस्थानाय प्रदास्यते। उभौ पाकिस्थानस्य प्रधानमन्त्रिणा तथा सैनिकाधिकारिणा सह सम्भाषणं करिष्यतः।