OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 31, 2017

ब्रह्मपुत्रां लक्ष्यीकृत्य चैना। जलमाहर्तुं बृहत् 'टणल्' सज्जीकुर्वन्ति।
      नवदेहली> दोक् ला संघर्षस्स पुरतः ब्रह्मपुत्रानद्याः जलं चैनायाः षिड्जियाड् क्षेत्रे नेतुं प्रयत्नः प्रचलति। सहस्र कि. मी दूरेण टणल् निर्मीय जलं स्वीकर्तुमेव लक्ष्यम्। न्यूनेन व्ययेन चैनया टणल् निर्मीयते इति माध्यमेन संस्तूयते। यून्नान् क्षेत्रे ६०० कि.मी दूरेण टणलस्य निर्माणं चैनया आगस्त्मासे एव आरब्धा। नवीनेन पद्धत्या षिड्चियाड् क्षेत्रं कालिफोर्णिया सदृशं परिवर्तयति इति चैनया उक्तम्। ब्रह्मपुत्रानद्याः जलस्वीकरणं चैना जनानां पुरतः कदापि चर्चां अकरोत्। एषा प्रक्रिया बंग्लादेश् राष्ट्रं बाधते।
          चैना इण्डिया बंग्लादेश् इति त्रिषु राष्ट्रेषु प्रवहती बृहती नदी भवति ब्रह्मपुत्रा। चैनायां यार्लुड् टिसाड्पो इति बंग्लादेश् राष्ट्रे जमुना इति इण्डियायां ब्रह्मपुत्रा इति एषा नदी कथ्यते। बंग्लादेश् राष्ट्रे बंगाल् समुद्रे एषा पतति। विश्वस्य दीर्घतमासु नदीषु एका एषा।