OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 3, 2017

अमेरिक्कायां लास् वेगस् मध्ये भुषुण्डिप्रयोगेण उपषष्टिजनाः मृताः। 
       लास् वेगस् > अमेरिक्कायां लास् वेगस् मध्ये कञ्चन संगीतकार्यक्रमं प्रति कृते भुषुण्डिप्रयोगे उपषष्टि जनाः मृत्युमुपगताः। पञ्चशताधिकजनाः व्रणिताः। 
    अमेरिक्कायाः प्रमुखं विनोदसञ्चारकेन्द्रं भवति लास् वेगास्। अत्रत्ये कस्मिंश्चन स्थाने प्रवृत्तमानस्य सङ्गीतोत्सवस्य समापनदिने कार्यक्रममास्वदितुं त्रिशत्सहस्राधिकं जनाः सन्निहिताः आसन्। तान् लक्ष्यीकृत्य समीपस्थस्य भवनसमुच्चयस्य द्वात्रिंशत्तमात् तलात् स्टीफन् पडोक्क् नामकः आधुनिकयन्त्रशतघ्निमुपयुज्य अनेकवारं शस्त्रप्रयोगमकरोत्। प्रकोपनस्य कारणं किमिति अज्ञातं वर्तते। अक्रमी पश्चात् आरक्षकैः निहतः। 
   लास् वेगास् नगरस्थाः भारतीयाः सुरक्षिताः वर्तन्ते इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्।