OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 20, 2017

सुप्रधानां साङ्केतिक-विद्यां भारत-नाविकसेनायै दातुं यु एस् सन्नद्धः।
              वाषिङ्टण् >  विमानवाहिनी नौकासु उपयुज्यमाना 'इमाल्स्' नाम विद्युत्कान्तिक विद्या भारतनाविकसेनायै दातुं निश्चितम् इति यू एस् शासनसभया उक्तम्। यु एस् स्टेट् सेक्रट्टरि टिलेर्सणस्य भारतसन्दर्शनात् पूर्वप्रकरणरूपेण भवति अयं निश्चयः।
             इमाल्स् विद्यायाः हस्तान्तरीकरणम् अभिलष्य भारतेन भूतपूर्वराष्ट्रपतये ओबामावर्याय पत्रं प्रेषितम्। 'जनरल् आटोमिक् संस्थ'या रचिता इमाल्स् विद्या अधुनापि अमेरिकायाः विमानवाहिनीषु उपयुज्यते। विद्युत्कान्तिक-शक्तिमुपयुज्य विमानवाहिन्याः लघुधावन-पथादपि बृहदाकारकं युद्ध -विमानान्यपि विनाक्लेशं उड्डाययितुं शक्यते।  प्रावर्तयितुं सौविध्यम् , अनुरक्षणाय न्यूनव्ययः च अस्याः विशेषतासु प्रधाने भवतः। विनाविलम्बं नवदिल्यां कार्यालयः उद्घाटयिष्यति तदर्थं योजना प्रचाल्यते इति जनरल् आटोमिक् संस्थ'या उक्तम्।