OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 15, 2017

गौरी लङ्केशहत्या – अपराधिनां रेखाचित्राणि बहिर्नीतानि। 
                 बङ्गलुरू > पत्रिकाप्रवर्तकायाः गौरी लङ्केशवर्यायाः हननविषये अपराधिन इति मन्वमानानां त्रयाणां रेखाचित्राणि अन्वेषणसङ्घेन बहिर्नीतानि। हत्यायाः  चत्वारिशत् दिनानाम् अनन्तरमेव चित्राणि प्रसिद्धीकृतानि। 
                 एतैः सह अपराधिषु अन्यतमः केनचन रक्तवर्णाङ्कितबैक्यानेन राजराजेश्वरीनगरस्थं गौरीलङ्केशस्य गृहं प्रति आगमनस्य चलनदृश्यमपि वार्तामाध्यमेभ्यः दत्तम्। अपराधिनाम् अभिग्रहणविषये सामान्यजनानां सम्पूर्णसहयोगः आवश्यक इति अन्वेषणसङ्घनेत्रा बि के सिंहवर्येण उक्तम्। 
    अक्रमिणः गौरीलङ्केशस्य भवनसमीपम् उषित्वा हननासूत्रणं कृतमिति मन्यते। किन्तु अपराधिनः अभिग्रहीतुं पर्याप्ताः सूचनाः न लब्धाः।