OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 13, 2017

अमेरिकाराष्ट्रं युनस्को (UNESCO) नाम संयुक्त राष्ट्रसंस्थातः बहिर्गच्छति।
                   युनस्को ( United Nations Educational scientific and cultural organisations) नाम संस्थातः प्रतिनिवर्तितुं निरचिनोत्‌। इस्रायेल् राष्ट्रं विरुद्ध्य युनस्को तिष्टति इति उक्त्वा एव संस्थातः निर्गमनम्। यु एस् विदेश कार्यमन्त्रालयः एव  वार्तामिमां प्राकाशयत्‌। युनस्को संस्थां प्रति दीयमानम् आर्थिकसाहाय्यम् एकादशाधिक द्विसहस्रतमात् (२०११) संवत्सरादारभ्य अमेरिकया निवारितम्। पालस्तीनस्य  अनुकूलतया सदस्यराजैः अभिमत प्रदर्शनानन्तरमेव आसीत् एवं निर्णयः स्वीकृतः । इस्रयेल् नेतारं विरुद्ध्य सम्युक्तेङ्गितपत्रसमर्पणानन्तरं युनस्को समितिभ्यः इस्रयेलः स्वयं परित्यज्य बहिर्गतः आसीत्। युनस्कोसमित्याम् पालस्तीनस्य अङ्गत्वलब्ध्यनन्तरं सञ्जातः अमेरिकायाः  रोषः एव संवत्सरानन्तरं समितेः परित्यागपर्यन्तं प्रापयत्। इस्रयेलस्य विप्रतिपत्तिं विगणय्य आसीत् पालस्तीनस्य युनस्को प्रवेशः।