OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 31, 2017

भारतस्य प्रत्याक्रमणानि साधारण जनान् उद्दिश्य न
        नव दिल्ली> काश्मीरस्य नियन्त्रण-रेखायां सङ्घर्र्षः वर्धिते सति भारत-पाकिस्तानयोः DGMO इति सैनिक पदयोः विराजमानयोः अधिकारिणोः मिथः मेलनम् अभवत्। भारतस्य सेनानिर्देशकः लफ्टनन्ट् जनरल् (D GMO) ए के भट् एव पाकिस्तानस्य निर्देशकेन सह भाषणमकरोत्। पाकिस्थानस्य पक्षतः कोपप्रेरणा भविष्यति चेत् शक्तया रीत्या प्रत्याक्रमणं भविष्यति इति भट्टः चर्चायाम् अवदत्। नियन्त्रणरेखायाम् भारतेन कोपप्रेरणां विना गोलिका प्रहरः क्रियते इति पाकिस्थानस्य दुरारोपणं भट्टेन निरस्थम्। पाकिस्थानस्य साहाय्येन भीकरैः क्रियमाणः लूण्डनप्रवेशस्य रोधनमेव क्रियते भारतेन इत्यपि सः प्रत्युत्तरमदात्। सामान्यजनान्‌ लक्षीकृत्य कदापि नासीत् भारतस्य प्रत्याक्रमणम् इति च सः अवदत्।