OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 3, 2017

असमे पुनरपि जलोपप्लवः, ७८००० जनाः दुरितबाघिताः।
               गुवाहति > असमस्य पञ्चसु जनपदेषु पुनरपि जलोपप्लवः। अष्टाशीति सहस्रं (७८०००) जनाः प्रलयबाधिताः अभवन्I समीपस्थराज्येषु मेघालय अरुणाचलप्रदेशेषु सम्भूताः वर्षाः एव जलोपप्लवस्य कारणम्। लिखिंपुरः, दक्षिणसल्मारः, गोल्परः, होजायि, कर् बी आङ् लोङ् जनपदेषु एव जलोपप्लवे अधिक्यः।
               प्रलयबाधित जनपदेषु  अष्टादश (१८) दुरित निवारणशिबिराः उद्घाटिताः। नवसहस्रं जनाः शिबिराश्रिताः सन्ति इति PTI संस्थया विज्ञाप्यते । गोल्पारयां एकचत्वारिंशत् सहस्रं जनाः प्रलयेन बाधिताः सन्ति। संवत्सरेस्मिन् द्वितीयः जलोपप्लवः भवति एषः। पूर्वकालीन प्रलये षट्सप्तति जनाः (७६) मृताः आसन्।