OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 17, 2017

बगलूरु नगरे मन्दिरं विच्छिन्नं भूत्वा षट् जनाः मृताः।

               बगलूरु>बगलूरु नगरे एल् पी जी ग्यास् स्फोटनेन द्वि स्तर मन्दिरं विच्छिन्नं जातम्। अद्य प्रातःसप्तवादने  दुर्घटना जाता।  मृतेषु द्वौ जनौ प्रत्यभिज्ञातौ। उपरि स्तरवासिनौ कलावतीं (६८) रविचन्द्रं(३०) च प्रत्यभिज्ञातौ। तेषां परिवारे द्वौ बालकौ क्षतैः सह रक्षां प्राप्तवन्तौ। अधस्तराः परिवाराः मन्दिरावशिष्टेषु भवन्तीति दुर्घटना क्षेत्रस्य सन्दर्शनं कृत्वा कर्णाटका गृहमन्त्रिणा रामलिंगरेट्टिना उक्तम्।

 मृतानां परिवाराय पञ्चलक्षं रूप्यकं आर्थिकसाहाय्यं दास्यतीति नगरविकासमन्त्रिणा के जे जोर्ज् म.होदयेन उक्तम्। क्षतबाधितानां कृते पञ्चाशत् सहस्ररूप्यकाणि च दास्यति। अन्येषां कृते अन्वेषणं प्रचलति। क्षतबाधिताः समीपस्थं आतुरालयं प्रविष्टाः।