OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 18, 2017

केरले राज्यतलविद्यालयीयकायिकमेला शुक्रवासरे आरभ्यते। 
           कोट्टयम् > केरलस्य एकषष्टितमा  राज्यतलविद्यालयीयकामेला शुक्रवासरे कोट्टयं जनपदे पालानगरे आरभ्यते। कायिकताराणां विभागनिर्णये समग्रं परिष्करणं अस्मात्संवत्सरादारभ्य प्रवृत्तम्। 
    पूर्वसंवत्सरेषु वयः अध्ययनस्तरश्च 'सीनियर्', 'जूनियर', 'सब्जूनियर्' विभागानां मानदण्डः आसीत्। परन्तु अस्मात्संवत्सरादारभ्य पूर्वोक्तविभागेषु केवलं वयः एव मानदण्डः कृतः। उपजिल्लातलादारभ्य परिष्कृतमानदण्डमनुसृत्य एवासीत् स्पर्धाः चालिताः। कायिकाध्यापकानां बहुकालं यावत् निवेदनमनुसृत्यैव इदं परिवर्तनम्।