OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 27, 2017

सयामीस् युग्मापत्ययोः शस्त्रचिकित्सायां विजयः 
        नव दिल्ली > दिल्लीस्थ AIMS चिकित्सालये युगलजौ सफलतया विभक्तौ। एतयोः मस्तकस्य उपरिभागे आसीत् युगलत्वम् । त्रिंशत् भिषग्भिः अष्टादश-होरापर्यन्तं कृतायाः दीर्घायाः शल्यक्रियायाः फलस्वरुपौ भवति एतौ शिशू। क्रित्रिम-श्वसनदायक-यन्त्रस्य साहाय्येन एव श्वासोच्छ्वासं कुरुतः। द्विसप्तति होरानन्तरमेव उज्जीवन-स्थितिमधिकृत्य किमपि वक्तुं शक्यते इति वदन्ति भिषजाः।
ओडीषा राष्ट्रस्य कन्दमाली देशस्थौ पुष्पाञ्जली-कन्हार दम्पत्ययोः अपत्यौ भवतः एताै जगन्नाथ-बलरामौ। एयिम्स् चिकित्सालयस्य नाडीचिकित्सा-विभागाध्यक्षस्य महावैद्यस्य अशोक् कुमार् महापात्रावर्यस्य नेतृत्वे आसीत् शल्यक्रिया। 
ऐतयोः चिकित्सार्थं ओडीषा राज्यसर्वकारेण कोटिरूप्यकाणां साहाय्यं दत्तमासीत्। त्रिंशत् लक्षं जननेषु अन्यतमः भवति एतादृशः। साधारणतया जननात्परं प्रतिशतं पञ्चाशात्  शिशवः मृत्युं यान्ति। प्रतिशतं पञ्चविंशतीनामेव चिकित्सार्थं सन्दर्भः लभते च ।