OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 26, 2017

भूकम्पप्रवचनाय कृत्रिमबौद्धिकसंविधानम्। ब्रिस्टण् केम्ब्रिज् विश्वविद्यालयौ विजयं प्रातवन्तौ। 
               लण्टन् > भूचलनस्य पूर्वसूचनां दातुं कृत्रिमबौद्धिकयन्त्रसंविधानैः शास्त्रज्ञाः। अमेरिक्का-राष्ट्रस्य बोस्टण् विश्वविद्यालयः, ब्रिट्टनस्य केम्ब्रिज् विश्वविद्यालयः इत्येतयोः शास्त्रज्ञाः दुरन्तनिवारणमण्डले सुप्रधानम् अभीक्षणं कृतवन्तः।
    भूचलनानानां तेषां पूर्वं जायमानानां प्रकम्पनानां मिथः बन्धं ससूक्ष्मं  निरीक्ष्य एव अस्य यन्त्रविशेषस्य प्रवर्तनं विदधत्ते।  भूचलनं बहुवारं जायमानान् प्रदेशान् सूक्ष्मतया निरीक्षितुमपि अनेन संविधानेन शक्यते। परीक्षणशालायां भूचलनप्रकम्पाः कृत्रिमत्वेन संसृष्ट्य आसीत् परीक्षणानि। भूचलनवेलायां सविशेषतया जायमानानाः शब्दाश्च अनेन सविशेषयन्त्रेण प्रत्यभिज्ञाताः।